ऋग्वेद · अध्याय 8.070
यो राजा चर्षणीनां याता रथेभिर् अध्रिगुः ।
विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥
इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि ।
हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥
नकिष् टं कर्मणा नशद् यश् चकार सदावृधम् ।
इन्द्रं न यज्ञैर् विश्वगूर्तम् ऋभ्वसम् अधृष्टं धृष्ण्वोजसम् ॥
अषाळ्हम् उग्रम् पृतनासु सासहिं यस्मिन् महीर् उरुज्रयः ।
सं धेनवो जायमाने अनोनवुर् द्यावः क्षामो अनोनवुः ॥
यद् द्याव इन्द्र ते शतं शतम् भूमीर् उत स्युः ।
न त्वा वज्रिन् सहस्रं सूर्या अनु न जातम् अष्ट रोदसी ॥
आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।
अस्माँ अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिः ॥
न सीम् अदेव आपद् इषं दीर्घायो मर्त्यः ।
एतग्वा चिद् य एतशा युयोजते हरी इन्द्रो युयोजते ॥
तं वो महो महाय्यम् इन्द्रं दानाय सक्षणिम् ।
यो गाधेषु य आरणेषु हव्यो वाजेष्व् अस्ति हव्यः ॥
उद् ऊ षु णो वसो महे मृशस्व शूर राधसे ।
उद् ऊ षु मह्यै मघवन् मघत्तय उद् इन्द्र श्रवसे महे ॥
त्वं न इन्द्र ऋतयुस् त्वानिदो नि तृम्पसि ।
मध्ये वसिष्व तुविनृम्णोर्वोर् नि दासं शिश्नथो हथैः ॥
अन्यव्रतम् अमानुषम् अयज्वानम् अदेवयुम् ।
अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युम् पर्वतः ॥
त्वं न इन्द्रासां हस्ते शविष्ठ दावने ।
धानानां न सं गृभायास्मयुर् द्विः सं गृभायास्मयुः ॥
सखायः क्रतुम् इच्छत कथा राधाम शरस्य ।
उपस्तुतिम् भोजः सूरिर् यो अह्रयः ॥
भूरिभिः समह ऋषिभिर् बर्हिष्मद्भिः स्तविष्यसे ।
यद् इत्थम् एकम्-एकम् इच् छर वत्सान् पराददः ॥
कर्णगृह्या मघवा शौरदेव्यो वत्सं नस् त्रिभ्य आनयत् ।
अजां सूरिर् न धातवे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0