भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.071

8.071.01

त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः ।
उत द्विषो मर्त्यस्य ॥

8.071.02

नहि मन्युः पौरुषेय ईशे हि वः प्रियजात ।
त्वम् इद् असि क्षपावान् ॥

8.071.03

स नो विश्वेभिर् देवेभिर् ऊर्जो नपाद् भद्रशोचे ।
रयिं देहि विश्ववारम् ॥

8.071.04

न तम् अग्ने अरातयो मर्तं युवन्त रायः ।
यं त्रायसे दाश्वांसम् ॥

8.071.05

यं त्वं विप्र मेधसाताव् अग्ने हिनोषि धनाय ।
स तवोती गोषु गन्ता ॥

8.071.06

त्वं रयिम् पुरुवीरम् अग्ने दाशुषे मर्ताय ।
प्र णो नय वस्यो अच्छ ॥

8.071.07

उरुष्या णो मा परा दा अघायते जातवेदः ।
दुराध्ये3 मर्ताय ॥

8.071.08

अग्ने माकिष् टे देवस्य रातिम् अदेवो युयोत ।
त्वम् ईशिषे वसूनाम् ॥

8.071.09

स नो वस्व उप मास्य् ऊर्जो नपान् माहिनस्य ।
सखे वसो जरितृभ्यः ॥

8.071.10

अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।
अच्छा यज्ञासो नमसा पुरूवसुम् पुरुप्रशस्तम् ऊतये ॥

8.071.11

अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् ।
द्विता यो भूद् अमृतो मर्त्येष्व् आ होता मन्द्रतमो विशि ॥

8.071.12

अग्निं वो देवयज्ययाग्निम् प्रयत्य् अध्वरे ।
अग्निं धीषु प्रथमम् अग्निम् अर्वत्य् अग्निं क्षैत्राय साधसे ॥

8.071.13

अग्निर् इषां सख्ये ददातु न ईशे यो वार्याणाम् ।
अग्निं तोके तनये शश्वद् ईमहे वसुं सन्तं तनूपाम् ॥

8.071.14

अग्निम् ईळिष्वावसे गाथाभिः शीरशोचिषम् ।
अग्निं राये पुरुमीळ्ह श्रुतं नरो ऽग्निं सुदीतये छर्दिः ॥

8.071.15

अग्निं द्वेषो योतवै नो गृणीमस्य् अग्निं शं योश् च दातवे ।
विश्वासु विक्ष्व् अवितेव हव्यो भुवद् वस्तुर् ऋषूणाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc