भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.069

8.069.01

प्र-प्र वस् त्रिष्टुभम् इषम् मन्दद्वीरायेन्दवे ।
धिया वो मेधसातये पुरंध्या विवासति ॥

8.069.02

नदं व ओदतीनां नदं योयुवतीनाम् ।
पतिं वो अघ्न्यानां धेनूनाम् इषुध्यसि ॥

8.069.03

ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः ॥

8.069.04

अभि प्र गोपतिं गिरेन्द्रम् अर्च यथा विदे ।
सूनुं सत्यस्य सत्पतिम् ॥

8.069.05

आ हरयः ससृज्रिरे ऽरुषीर् अधि बर्हिषि ।
यत्राभि संनवामहे ॥

8.069.06

इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
यत् सीम् उपह्वरे विदत् ॥

8.069.07

उद् यद् ब्रध्नस्य विष्टपं गृहम् इन्द्रश् च गन्वहि ।
मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥

8.069.08

अर्चत प्रार्चत प्रियमेधासो अर्चत ।
अर्चन्तु पुत्रका उत पुरं न धृष्ण्व् अर्चत ॥

8.069.09

अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
पिङ्गा परि चनिष्कदद् इन्द्राय ब्रह्मोद्यतम् ॥

8.069.10

आ यत् पतन्त्य् एन्यः सुदुघा अनपस्फुरः ।
अपस्फुरं गृभायत सोमम् इन्द्राय पातवे ॥

8.069.11

अपाद् इन्द्रो अपाद् अग्निर् विश्वे देवा अमत्सत ।
वरुण इद् इह क्षयत् तम् आपो अभ्य् अनूषत वत्सं संशिश्वरीर् इव ॥

8.069.12

सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
अनुक्षरन्ति काकुदं सूर्म्यं सुषिराम् इव ॥

8.069.13

यो व्यतीँर् अफाणयत् सुयुक्ताँ उप दाशुषे ।
तक्वो नेता तद् इद् वपुर् उपमा यो अमुच्यत ॥

8.069.14

अतीद् उ शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
भिनत् कनीन ओदनम् पच्यमानम् परो गिरा ॥

8.069.15

अर्भको न कुमारको ऽधि तिष्ठन् नवं रथम् ।
स पक्षन् महिषम् मृगम् पित्रे मात्रे विभुक्रतुम् ॥

8.069.16

आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् ।
अध द्युक्षं सचेवहि सहस्रपादम् अरुषं स्वस्तिगाम् अनेहसम् ॥

8.069.17

तं घेम् इत्था नमस्विन उप स्वराजम् आसते ।
अर्थं चिद् अस्य सुधितं यद् एतव आवर्तयन्ति दावने ॥

8.069.18

अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।
पूर्वाम् अनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc