भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.068

8.068.01

आ त्वा रथं यथोतये सुम्नाय वर्तयामसि ।
तुविकूर्मिम् ऋतीषहम् इन्द्र शविष्ठ सत्पते ॥

8.068.02

तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
आ पप्राथ महित्वना ॥

8.068.03

यस्य ते महिना महः परि ज्मायन्तम् ईयतुः ।
हस्ता वज्रं हिरण्ययम् ॥

8.068.04

विश्वानरस्य वस् पतिम् अनानतस्य शवसः ।
एवैश् च चर्षणीनाम् ऊती हुवे रथानाम् ॥

8.068.05

अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः ।
नाना हवन्त ऊतये ॥

8.068.06

परोमात्रम् ऋचीषमम् इन्द्रम् उग्रं सुराधसम् ।
ईशानं चिद् वसूनाम् ॥

8.068.07

तं-तम् इद् राधसे मह इन्द्रं चोदामि पीतये ।
यः पूर्व्याम् अनुष्टुतिम् ईशे कृष्टीनां नृतुः ॥

8.068.08

न यस्य ते शवसान सख्यम् आनंश मर्त्यः ।
नकिः शवांसि ते नशत् ॥

8.068.09

त्वोतासस् त्वा युजाप्सु सूर्ये महद् धनम् ।
जयेम पृत्सु वज्रिवः ॥

8.068.10

तं त्वा यज्ञेभिर् ईमहे तं गीर्भिर् गिर्वणस्तम ।
इन्द्र यथा चिद् आविथ वाजेषु पुरुमाय्यम् ॥

8.068.11

यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिर् अद्रिवः ।
यज्ञो वितन्तसाय्यः ॥

8.068.12

उरु णस् तन्वे3 तन उरु क्षयाय नस् कृधि ।
उरु णो यन्धि जीवसे ॥

8.068.13

उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् ।
देववीतिम् मनामहे ॥

8.068.14

उप मा षड् द्वा-द्वा नरः सोमस्य हर्ष्या ।
तिष्ठन्ति स्वादुरातयः ॥

8.068.15

ऋज्राव् इन्द्रोत आ ददे हरी ऋक्षस्य सूनवि ।
आश्वमेधस्य रोहिता ॥

8.068.16

सुरथाँ आतिथिग्वे स्वभीशूँर् आर्क्षे ।
आश्वमेधे सुपेशसः ॥

8.068.17

षळ् अश्वाँ आतिथिग्व इन्द्रोते वधूमतः ।
सचा पूतक्रतौ सनम् ॥

8.068.18

ऐषु चेतद् वृषण्वत्य् अन्तर् ऋज्रेष्व् अरुषी ।
स्वभीशुः कशावती ॥

8.068.19

न युष्मे वाजबन्धवो निनित्सुश् चन मर्त्यः ।
अवद्यम् अधि दीधरत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc