भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.067

8.067.01

त्यान् नु क्षत्रियाँ अव आदित्यान् याचिषामहे ।
सुमृळीकाँ अभिष्टये ॥

8.067.02

मित्रो नो अत्य् अंहतिं वरुणः पर्षद् अर्यमा ।
आदित्यासो यथा विदुः ॥

8.067.03

तेषां हि चित्रम् उक्थ्य1ं वरूथम् अस्ति दाशुषे ।
आदित्यानाम् अरंकृते ॥

8.067.04

महि वो महताम् अवो वरुण मित्रार्यमन् ।
अवांस्य् आ वृणीमहे ॥

8.067.05

जीवान् नो अभि धेतनादित्यासः पुरा हथात् ।
कद् ध स्थ हवनश्रुतः ॥

8.067.06

यद् वः श्रान्ताय सुन्वते वरूथम् अस्ति यच् छर्दिः ।
तेना नो अधि वोचत ॥

8.067.07

अस्ति देवा अंहोर् उर्व् अस्ति रत्नम् अनागसः ।
आदित्या अद्भुतैनसः ॥

8.067.08

मा नः सेतुः सिषेद् अयम् महे वृणक्तु नस् परि ।
इन्द्र इद् धि श्रुतो वशी ॥

8.067.09

मा नो मृचा रिपूणां वृजिनानाम् अविष्यवः ।
देवा अभि प्र मृक्षत ॥

8.067.10

उत त्वाम् अदिते मह्य् अहं देव्य् उप ब्रुवे ।
सुमृळीकाम् अभिष्टये ॥

8.067.11

पर्षि दीने गभीर आँ उग्रपुत्रे जिघांसतः ।
माकिस् तोकस्य नो रिषत् ॥

8.067.12

अनेहो न उरुव्रज उरूचि वि प्रसर्तवे ।
कृधि तोकाय जीवसे ॥

8.067.13

ये मूर्धानः क्षितीनाम् अदब्धासः स्वयशसः ।
व्रता रक्षन्ते अद्रुहः ॥

8.067.14

ते न आस्नो वृकाणाम् आदित्यासो मुमोचत ।
स्तेनम् बद्धम् इवादिते ॥

8.067.15

अपो षु ण इयं शरुर् आदित्या अप दुर्मतिः ।
अस्मद् एत्व् अजघ्नुषी ॥

8.067.16

शश्वद् धि वः सुदानव आदित्या ऊतिभिर् वयम् ।
पुरा नूनम् बुभुज्महे ॥

8.067.17

शश्वन्तं हि प्रचेतसः प्रतियन्तं चिद् एनसः ।
देवाः कृणुथ जीवसे ॥

8.067.18

तत् सु नो नव्यं सन्यस आदित्या यन् मुमोचति ।
बन्धाद् बद्धम् इवादिते ॥

8.067.19

नास्माकम् अस्ति तत् तर आदित्यासो अतिष्कदे ।
यूयम् अस्मभ्यम् मृळत ॥

8.067.20

मा नो हेतिर् विवस्वत आदित्याः कृत्रिमा शरुः ।
पुरा नु जरसो वधीत् ॥

8.067.21

वि षु द्वेषो व्य् अंहतिम् आदित्यासो वि संहितम् ।
विष्वग् वि वृहता रपः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc