भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.065

8.065.01

यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः ।
आ याहि तूयम् आशुभिः ॥

8.065.02

यद् वा प्रस्रवणे दिवो मादयासे स्वर्णरे ।
यद् वा समुद्रे अन्धसः ॥

8.065.03

आ त्वा गीर्भिर् महाम् उरुं हुवे गाम् इव भोजसे ।
इन्द्र सोमस्य पीतये ॥

8.065.04

आ त इन्द्र महिमानं हरयो देव ते महः ।
रथे वहन्तु बिभ्रतः ॥

8.065.05

इन्द्र गृणीष उ स्तुषे महाँ उग्र ईशानकृत् ।
एहि नः सुतम् पिब ॥

8.065.06

सुतावन्तस् त्वा वयम् प्रयस्वन्तो हवामहे ।
इदं नो बर्हिर् आसदे ॥

8.065.07

यच् चिद् धि शश्वताम् असीन्द्र साधारणस् त्वम् ।
तं त्वा वयं हवामहे ॥

8.065.08

इदं ते सोम्यम् मध्व् अधुक्षन्न् अद्रिभिर् नरः ।
जुषाण इन्द्र तत् पिब ॥

8.065.09

विश्वाँ अर्यो विपश्चितो ऽति ख्यस् तूयम् आ गहि ।
अस्मे धेहि श्रवो बृहत् ॥

8.065.10

दाता मे पृषतीनां राजा हिरण्यवीनाम् ।
मा देवा मघवा रिषत् ॥

8.065.11

सहस्रे पृषतीनाम् अधि श्चन्द्रम् बृहत् पृथु ।
शुक्रं हिरण्यम् आ ददे ॥

8.065.12

नपातो दुर्गहस्य मे सहस्रेण सुराधसः ।
श्रवो देवेष्व् अक्रत ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc