भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.066

8.066.01

तरोभिर् वो विदद्वसुम् इन्द्रं सबाध ऊतये ।
बृहद् गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥

8.066.02

न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रम् अन्धसः ।
य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥

8.066.03

यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः ।
स ऊर्वस्य रेजयत्य् अपावृतिम् इन्द्रो गव्यस्य वृत्रहा ॥

8.066.04

निखातं चिद् यः पुरुसम्भृतं वसूद् इद् वपति दाशुषे ।
वज्री सुशिप्रो हर्यश्व इत् करद् इन्द्रः क्रत्वा यथा वशत् ॥

8.066.05

यद् वावन्थ पुरुष्टुत पुरा चिच् छूर नृणाम् ।
वयं तत् त इन्द्र सम् भरामसि यज्ञम् उक्थं तुरं वचः ॥

8.066.06

सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः ।
त्वम् इद् धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥

8.066.07

वयम् एनम् इदा ह्यो ऽपीपेमेह वज्रिणम् ।
तस्मा उ अद्य समना सुतम् भरा नूनम् भूषत श्रुते ॥

8.066.08

वृकश् चिद् अस्य वारण उरामथिर् आ वयुनेषु भूषति ।
सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥

8.066.09

कद् ऊ न्व् अ1स्याकृतम् इन्द्रस्यास्ति पौंस्यम् ।
केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥

8.066.10

कद् ऊ महीर् अधृष्टा अस्य तविषीः कद् उ वृत्रघ्नो अस्तृतम् ।
इन्द्रो विश्वान् बेकनाटाँ अहर्दृश उत क्रत्वा पणीँर् अभि ॥

8.066.11

वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् ।
पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥

8.066.12

पूर्वीश् चिद् धि त्वे तुविकूर्मिन्न् आशसो हवन्त इन्द्रोतयः ।
तिरश् चिद् अर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥

8.066.13

वयं घा ते त्वे इद् व् इन्द्र विप्रा अपि ष्मसि ।
नहि त्वद् अन्यः पुरुहूत कश् चन मघवन्न् अस्ति मर्डिता ॥

8.066.14

त्वं नो अस्या अमतेर् उत क्षुधो3 ऽभिशस्तेर् अव स्पृधि ।
त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥

8.066.15

सोम इद् वः सुतो अस्तु कलयो मा बिभीतन ।
अपेद् एष ध्वस्मायति स्वयं घैषो अपायति ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc