भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.064

8.064.01

उत् त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
अव ब्रह्मद्विषो जहि ॥

8.064.02

पदा पणीँर् अराधसो नि बाधस्व महाँ असि ।
नहि त्वा कश् चन प्रति ॥

8.064.03

त्वम् ईशिषे सुतानाम् इन्द्र त्वम् असुतानाम् ।
त्वं राजा जनानाम् ॥

8.064.04

एहि प्रेहि क्षयो दिव्य् आ3घोषञ् चर्षणीनाम् ।
ओभे पृणासि रोदसी ॥

8.064.05

त्यं चित् पर्वतं गिरिं शतवन्तं सहस्रिणम् ।
वि स्तोतृभ्यो रुरोजिथ ॥

8.064.06

वयम् उ त्वा दिवा सुते वयं नक्तं हवामहे ।
अस्माकं कामम् आ पृण ॥

8.064.07

क्व1 स्य वृषभो युवा तुविग्रीवो अनानतः ।
ब्रह्मा कस् तं सपर्यति ॥

8.064.08

कस्य स्वित् सवनं वृषा जुजुष्वाँ अव गच्छति ।
इन्द्रं क उ स्विद् आ चके ॥

8.064.09

कं ते दाना असक्षत वृत्रहन् कं सुवीर्या ।
उक्थे क उ स्विद् अन्तमः ॥

8.064.10

अयं ते मानुषे जने सोमः पूरुषु सूयते ।
तस्येहि प्र द्रवा पिब ॥

8.064.11

अयं ते शर्यणावति सुषोमायाम् अधि प्रियः ।
आर्जीकीये मदिन्तमः ॥

8.064.12

तम् अद्य राधसे महे चारुम् मदाय घृष्वये ।
एहीम् इन्द्र द्रवा पिब ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc