ऋग्वेद · अध्याय 8.063
स पूर्व्यो महानां वेनः क्रतुभिर् आनजे ।
यस्य द्वारा मनुष् पिता देवेषु धिय आनजे ॥
दिवो मानं नोत् सदन् सोमपृष्ठासो अद्रयः ।
उक्था ब्रह्म च शंस्या ॥
स विद्वाँ अङ्गिरोभ्य इन्द्रो गा अवृणोद् अप ।
स्तुषे तद् अस्य पौंस्यम् ॥
स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः ।
शिवो अर्कस्य होमन्य् अस्मत्रा गन्त्व् अवसे ॥
आद् ऊ नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः ।
श्वात्रम् अर्का अनूषतेन्द्र गोत्रस्य दावने ॥
इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च ।
यम् अर्का अध्वरं विदुः ॥
यत् पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत ।
अस्तृणाद् बर्हणा विपो3 ऽर्यो मानस्य स क्षयः ॥
इयम् उ ते अनुष्टुतिश् चकृषे तानि पौंस्या ।
प्रावश् चक्रस्य वर्तनिम् ॥
अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे ।
यवं न पश्व आ ददे ॥
तद् दधाना अवस्यवो युष्माभिर् दक्षपितरः ।
स्याम मरुत्वतो वृधे ॥
बळ् ऋत्वियाय धाम्न ऋक्वभिः शूर नोनुमः ।
जेषामेन्द्र त्वया युजा ॥
अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्माँ अवन्तु देवाः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0