भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.054

8.054.01

एतत् त इन्द्र वीर्यं गीर्भिर् गृणन्ति कारवः ।
ते स्तोभन्त ऊर्जम् आवन् घृतश्चुतम् पौरासो नक्षन् धीतिभिः ॥

8.054.02

नक्षन्त इन्द्रम् अवसे सुकृत्यया येषां सुतेषु मन्दसे ।
यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥

8.054.03

आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।
वसवो रुद्रा अवसे न आ गमञ् छृण्वन्तु मरुतो हवम् ॥

8.054.04

पूषा विष्णुर् हवनम् मे सरस्वत्य् अवन्तु सप्त सिन्धवः ।
आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥

8.054.05

यद् इन्द्र राधो अस्ति ते माघोनम् मघवत्तम ।
तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥

8.054.06

आजिपते नृपते त्वम् इद् धि नो वाज आ वक्षि सुक्रतो ।
वीती होत्राभिर् उत देववीतिभिः ससवांसो वि शृण्विरे ॥

8.054.07

सन्ति ह्य् अ1र्य आशिष इन्द्र आयुर् जनानाम् ।
अस्मान् नक्षस्व मघवन्न् उपावसे धुक्षस्व पिप्युषीम् इषम् ॥

8.054.08

वयं त इन्द्र स्तोमेभिर् विधेम त्वम् अस्माकं शतक्रतो ।
महि स्थूरं शशयं राधो अह्रयम् प्रस्कण्वाय नि तोशय ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc