ऋग्वेद · अध्याय 8.053
उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् ।
पूर्भित्तमम् मघवन्न् इन्द्र गोविदम् ईशानं राय ईमहे ॥
य आयुं कुत्सम् अतिथिग्वम् अर्दयो वावृधानो दिवे-दिवे ।
तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥
आ नो विश्वेषां रसम् मध्वः सिञ्चन्त्व् अद्रयः ।
ये परावति सुन्विरे जनेष्व् आ ये अर्वावतीन्दवः ॥
विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्व् आ वसु ।
शीष्टेषु चित् ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ॥
इन्द्र नेदीय एद् इहि मितमेधाभिर् ऊतिभिः ।
आ शंतम शंतमाभिर् अभिष्टिभिर् आ स्वापे स्वापिभिः ॥
आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्व् आभगम् ।
प्र सू तिरा शचीभिर् ये त उक्थिनः क्रतुम् पुनत आनुषक् ॥
यस् ते साधिष्ठो ऽवसे ते स्याम भरेषु ते ।
वयं होत्राभिर् उत देवहूतिभिः ससवांसो मनामहे ॥
अहं हि ते हरिवो ब्रह्म वाजयुर् आजिं यामि सदोतिभिः ।
त्वाम् इद् एव तम् अमे सम् अश्वयुर् गव्युर् अग्रे मथीनाम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0