भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.055

8.055.01

भूरीद् इन्द्रस्य वीर्य1ं व्य् अख्यम् अभ्य् आयति ।
राधस् ते दस्यवे वृक ॥

8.055.02

शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते ।
मह्ना दिवं न तस्तभुः ॥

8.055.03

शतं वेणूञ् छतं शुनः शतं चर्माणि म्लातानि ।
शतम् मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥

8.055.04

सुदेवाः स्थ काण्वायना वयो-वयो विचरन्तः ।
अश्वासो न चङ्क्रमत ॥

8.055.05

आद् इत् साप्तस्य चर्किरन्न् आनूनस्य महि श्रवः ।
श्यावीर् अतिध्वसन् पथश् चक्षुषा चन संनशे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc