भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.051

8.051.01

यथा मनौ सांवरणौ सोमम् इन्द्रापिबः सुतम् ।
नीपातिथौ मघवन् मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥

8.051.02

पार्षद्वाणः प्रस्कण्वं सम् असादयच् छयानं जिव्रिम् उद्धितम् ।
सहस्राण्य् असिषासद् गवाम् ऋषिस् त्वोतो दस्यवे वृकः ॥

8.051.03

य उक्थेभिर् न विन्धते चिकिद् य ऋषिचोदनः ।
इन्द्रं तम् अच्छा वद नव्यस्या मत्य् अरिष्यन्तं न भोजसे ॥

8.051.04

यस्मा अर्कं सप्तशीर्षाणम् आनृचुस् त्रिधातुम् उत्तमे पदे ।
स त्व् इ1मा विश्वा भुवनानि चिक्रदद् आद् इज् जनिष्ट पौंस्यम् ॥

8.051.05

यो नो दाता वसूनाम् इन्द्रं तं हूमहे वयम् ।
विद्मा ह्य् अस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥

8.051.06

यस्मै त्वं वसो दानाय शिक्षसि स रायस् पोषम् अश्नुते ।
तं त्वा वयम् मघवन्न् इन्द्र गिर्वणः सुतावन्तो हवामहे ॥

8.051.07

कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे ।
उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥

8.051.08

प्र यो ननक्षे अभ्य् ओजसा क्रिविं वधैः शुष्णं निघोषयन् ।
यदेद् अस्तम्भीत् प्रथयन्न् अमूं दिवम् आद् इज् जनिष्ट पार्थिवः ॥

8.051.09

यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।
तिरश् चिद् अर्ये रुशमे परीरवि तुभ्येत् सो अज्यते रयिः ॥

8.051.10

तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कम् आनृचुः ।
अस्मे रयिः पप्रथे वृष्ण्यं शवो ऽस्मे सुवानास इन्दवः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc