भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.050

8.050.01

प्र सु श्रुतं सुराधसम् अर्चा शक्रम् अभिष्टये ।
यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥

8.050.02

शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।
गिरिर् न भुज्मा मघवत्सु पिन्वते यद् ईं सुता अमन्दिषुः ॥

8.050.03

यद् ईं सुतास इन्दवो ऽभि प्रियम् अमन्दिषुः ।
आपो न धायि सवनम् म आ वसो दुघा इवोप दाशुषे ॥

8.050.04

अनेहसं वो हवमानम् ऊतये मध्वः क्षरन्ति धीतयः ।
आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥

8.050.05

आ नः सोमे स्वध्वर इयानो अत्यो न तोशते ।
यं ते स्वदावन् स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ॥

8.050.06

प्र वीरम् उग्रं विविचिं धनस्पृतं विभूतिं राधसो महः ।
उद्रीव वज्रिन्न् अवतो वसुत्वना सदा पीपेथ दाशुषे ॥

8.050.07

यद् ध नूनम् परावति यद् वा पृथिव्यां दिवि ।
युजान इन्द्र हरिभिर् महेमत ऋष्व ऋष्वेभिर् आ गहि ॥

8.050.08

रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति ।
येभिर् नि दस्युम् मनुषो निघोषयो येभिः स्वः परीयसे ॥

8.050.09

एतावतस् ते वसो विद्याम शूर नव्यसः ।
यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥

8.050.10

यथा कण्वे मघवन् मेधे अध्वरे दीर्घनीथे दमूनसि ।
यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc