ऋग्वेद · अध्याय 8.052
यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् ।
यथा त्रिते छन्द इन्द्र जुजोषस्य् आयौ मादयसे सचा ॥
पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः ।
यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्माव् ऋजूनसि ॥
य उक्था केवला दधे यः सोमं धृषितापिबत् ।
यस्मै विष्णुस् त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥
यस्य त्वम् इन्द्र स्तोमेषु चाकनो वाजे वाजिञ् छतक्रतो ।
तं त्वा वयं सुदुघाम् इव गोदुहो जुहूमसि श्रवस्यवः ॥
यो नो दाता स नः पिता महाँ उग्र ईशानकृत् ।
अयामन्न् उग्रो मघवा पुरूवसुर् गोर् अश्वस्य प्र दातु नः ॥
यस्मै त्वं वसो दानाय मंहसे स रायस् पोषम् इन्वति ।
वसूयवो वसुपतिं शतक्रतुं स्तोमैर् इन्द्रं हवामहे ॥
कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी ।
तुरीयादित्य हवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ॥
यस्मै त्वम् मघवन्न् इन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे ।
अस्माकं गिर उत सुष्टुतिं वसो कण्ववच् छृणुधी हवम् ॥
अस्तावि मन्म पूर्व्यम् ब्रह्मेन्द्राय वोचत ।
पूर्वीर् ऋतस्य बृहतीर् अनूषत स्तोतुर् मेधा असृक्षत ॥
सम् इन्द्रो रायो बृहतीर् अधूनुत सं क्षोणी सम् उ सूर्यम् ।
सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रम् अमन्दिषुः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0