भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.048

8.048.01

स्वादोर् अभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य ।
विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥

8.048.02

अन्तश् च प्रागा अदितिर् भवास्य् अवयाता हरसो दैव्यस्य ।
इन्दव् इन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरम् अनु राय ऋध्याः ॥

8.048.03

अपाम सोमम् अमृता अभूमागन्म ज्योतिर् अविदाम देवान् ।
किं नूनम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥

8.048.04

शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः ।
सखेव सख्य उरुशंस धीरः प्र ण आयुर् जीवसे सोम तारीः ॥

8.048.05

इमे मा पीता यशस उरुष्यवो रथं न गावः सम् अनाह पर्वसु ।
ते मा रक्षन्तु विस्रसश् चरित्राद् उत मा स्रामाद् यवयन्त्व् इन्दवः ॥

8.048.06

अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः ।
अथा हि ते मद आ सोम मन्ये रेवाँ इव प्र चरा पुष्टिम् अच्छ ॥

8.048.07

इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः ।
सोम राजन् प्र ण आयूंषि तारीर् अहानीव सूर्यो वासराणि ॥

8.048.08

सोम राजन् मृळया नः स्वस्ति तव स्मसि व्रत्या3स् तस्य विद्धि ।
अलर्ति दक्ष उत मन्युर् इन्दो मा नो अर्यो अनुकामम् परा दाः ॥

8.048.09

त्वं हि नस् तन्वः सोम गोपा गात्रे-गात्रे निषसत्था नृचक्षाः ।
यत् ते वयम् प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥

8.048.10

ऋदूदरेण सख्या सचेय यो मा न रिष्येद् धर्यश्व पीतः ।
अयं यः सोमो न्य् अधाय्य् अस्मे तस्मा इन्द्रम् प्रतिरम् एम्य् आयुः ॥

8.048.11

अप त्या अस्थुर् अनिरा अमीवा निर् अत्रसन् तमिषीचीर् अभैषुः ।
आ सोमो अस्माँ अरुहद् विहाया अगन्म यत्र प्रतिरन्त आयुः ॥

8.048.12

यो न इन्दुः पितरो हृत्सु पीतो ऽमर्त्यो मर्त्याँ आविवेश ।
तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥

8.048.13

त्वं सोम पितृभिः संविदानो ऽनु द्यावापृथिवी आ ततन्थ ।
तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥

8.048.14

त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः ।
वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथम् आ वदेम ॥

8.048.15

त्वं नः सोम विश्वतो वयोधास् त्वं स्वर्विद् आ विशा नृचक्षाः ।
त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चाताद् उत वा पुरस्तात् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc