भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.049

8.049.01

अभि प्र वः सुराधसम् इन्द्रम् अर्च यथा विदे ।
यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥

8.049.02

शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
गिरेर् इव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥

8.049.03

आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः ।
आपो न वज्रिन्न् अन्व् ओक्य1ं सरः पृणन्ति शूर राधसे ॥

8.049.04

अनेहसम् प्रतरणं विवक्षणम् मध्वः स्वादिष्ठम् ईम् पिब ।
आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥

8.049.05

आ नः स्तोमम् उप द्रवद् धियानो अश्वो न सोतृभिः ।
यं ते स्वधावन् स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥

8.049.06

उग्रं न वीरं नमसोप सेदिम विभूतिम् अक्षितावसुम् ।
उद्रीव वज्रिन्न् अवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥

8.049.07

यद् ध नूनं यद् वा यज्ञे यद् वा पृथिव्याम् अधि ।
अतो नो यज्ञम् आशुभिर् महेमत उग्र उग्रेभिर् आ गहि ॥

8.049.08

अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।
येभिर् अपत्यम् मनुषः परीयसे येभिर् विश्वं स्वर् दृशे ॥

8.049.09

एतावतस् त ईमह इन्द्र सुम्नस्य गोमतः ।
यथा प्रावो मघवन् मेध्यातिथिं यथा नीपातिथिं धने ॥

8.049.10

यथा कण्वे मघवन् त्रसदस्यवि यथा पक्थे दशव्रजे ।
यथा गोशर्ये असनोर् ऋजिश्वनीन्द्र गोमद् धिरण्यवत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc