भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.047

8.047.01

महि वो महताम् अवो वरुण मित्र दाशुषे ।
यम् आदित्या अभि द्रुहो रक्षथा नेम् अघं नशद् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.02

विदा देवा अघानाम् आदित्यासो अपाकृतिम् ।
पक्षा वयो यथोपरि व्य् अ1स्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.03

व्य् अ1स्मे अधि शर्म तत् पक्षा वयो न यन्तन ।
विश्वानि विश्ववेदसो वरूथ्या मनामहे ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.04

यस्मा अरासत क्षयं जीवातुं च प्रचेतसः ।
मनोर् विश्वस्य घेद् इम आदित्या राय ईशते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.05

परि णो वृणजन्न् अघा दुर्गाणि रथ्यो यथा ।
स्यामेद् इन्द्रस्य शर्मण्य् आदित्यानाम् उतावस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.06

परिह्वृतेद् अना जनो युष्मादत्तस्य वायति ।
देवा अदभ्रम् आश वो यम् आदित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.07

न तं तिग्मं चन त्यजो न द्रासद् अभि तं गुरु ।
यस्मा उ शर्म सप्रथ आदित्यासो अराध्वम् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.08

युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु ।
यूयम् महो न एनसो यूयम् अर्भाद् उरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.09

अदितिर् न उरुष्यत्व् अदितिः शर्म यच्छतु ।
माता मित्रस्य रेवतो ऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.10

यद् देवाः शर्म शरणं यद् भद्रं यद् अनातुरम् ।
त्रिधातु यद् वरूथ्य1ं तद् अस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.11

आदित्या अव हि ख्यताधि कूलाद् इव स्पशः ।
सुतीर्थम् अर्वतो यथानु नो नेषथा सुगम् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.12

नेह भद्रं रक्षस्विने नावयै नोपया उत ।
गवे च भद्रं धेनवे वीराय च श्रवस्यते ऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.13

यद् आविर् यद् अपीच्य1ं देवासो अस्ति दुष्कृतम् ।
त्रिते तद् विश्वम् आप्त्य आरे अस्मद् दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.14

यच् च गोषु दुष्ष्वप्न्यं यच् चास्मे दुहितर् दिवः ।
त्रिताय तद् विभावर्य् आप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.15

निष्कं वा घा कृणवते स्रजं वा दुहितर् दिवः ।
त्रिते दुष्ष्वप्न्यं सर्वम् आप्त्ये परि दद्मस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.16

तदन्नाय तदपसे तम् भागम् उपसेदुषे ।
त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.17

यथा कलां यथा शफं यथ ऋणं संनयामसि ।
एवा दुष्ष्वप्न्यं सर्वम् आप्त्ये सं नयामस्य् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.047.18

अजैष्माद्यासनाम चाभूमानागसो वयम् ।
उषो यस्माद् दुष्ष्वप्न्याद् अभैष्माप तद् उच्छत्व् अनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc