ऋग्वेद · अध्याय 8.041
अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्यो ऽर्चा विदुष्टरेभ्यः ।
यो धीता मानुषाणाम् पश्वो गा इव रक्षति नभन्ताम् अन्यके समे ॥
तम् ऊ षु समना गिरा पितॄणां च मन्मभिः ।
नाभाकस्य प्रशस्तिभिर् यः सिन्धूनाम् उपोदये सप्तस्वसा स मध्यमो नभन्ताम् अन्यके समे ॥
स क्षपः परि षस्वजे न्य् उ1स्रो मायया दधे स विश्वम् परि दर्शतः ।
तस्य वेनीर् अनु व्रतम् उषस् तिस्रो अवर्धयन् नभन्ताम् अन्यके समे ॥
यः ककुभो निधारयः पृथिव्याम् अधि दर्शतः ।
स माता पूर्व्यम् पदं तद् वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्ताम् अन्यके समे ॥
यो धर्ता भुवनानां य उस्राणाम् अपीच्या3 वेद नामानि गुह्या ।
स कविः काव्या पुरु रूपं द्यौर् इव पुष्यति नभन्ताम् अन्यके समे ॥
यस्मिन् विश्वानि काव्या चक्रे नाभिर् इव श्रिता ।
त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वाँ अयुक्षत नभन्ताम् अन्यके समे ॥
य आस्व् अत्क आशये विश्वा जातान्य् एषाम् ।
परि धामानि मर्मृशद् वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्ताम् अन्यके समे ॥
स समुद्रो अपीच्यस् तुरो द्याम् इव रोहति नि यद् आसु यजुर् दधे ।
स माया अर्चिना पदास्तृणान् नाकम् आरुहन् नभन्ताम् अन्यके समे ॥
यस्य श्वेता विचक्षणा तिस्रो भूमीर् अधिक्षितः ।
त्रिर् उत्तराणि पप्रतुर् वरुणस्य ध्रुवं सदः स सप्तानाम् इरज्यति नभन्ताम् अन्यके समे ॥
यः श्वेताँ अधिनिर्णिजश् चक्रे कृष्णाँ अनु व्रता ।
स धाम पूर्व्यम् ममे यः स्कम्भेन वि रोदसी अजो न द्याम् अधारयन् नभन्ताम् अन्यके समे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0