भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.040

8.040.01

इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् ।
येन दृळ्हा समत्स्व् आ वीळु चित् साहिषीमह्य् अग्निर् वनेव वात इन् नभन्ताम् अन्यके समे ॥

8.040.02

नहि वां वव्रयामहे ऽथेन्द्रम् इद् यजामहे शविष्ठं नृणां नरम् ।
स नः कदा चिद् अर्वता गमद् आ वाजसातये गमद् आ मेधसातये नभन्ताम् अन्यके समे ॥

8.040.03

ता हि मध्यम् भराणाम् इन्द्राग्नी अधिक्षितः ।
ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतम् अश्नुतं नरा नभन्ताम् अन्यके समे ॥

8.040.04

अभ्य् अर्च नभाकवद् इन्द्राग्नी यजसा गिरा ।
ययोर् विश्वम् इदं जगद् इयं द्यौः पृथिवी मह्य् उ1पस्थे बिभृतो वसु नभन्ताम् अन्यके समे ॥

8.040.05

प्र ब्रह्माणि नभाकवद् इन्द्राग्निभ्याम् इरज्यत ।
या सप्तबुध्नम् अर्णवं जिह्मबारम् अपोर्णुत इन्द्र ईशान ओजसा नभन्ताम् अन्यके समे ॥

8.040.06

अपि वृश्च पुराणवद् व्रततेर् इव गुष्पितम् ओजो दासस्य दम्भय ।
वयं तद् अस्य सम्भृतं वस्व् इन्द्रेण वि भजेमहि नभन्ताम् अन्यके समे ॥

8.040.07

यद् इन्द्राग्नी जना इमे विह्वयन्ते तना गिरा ।
अस्माकेभिर् नृभिर् वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्ताम् अन्यके समे ॥

8.040.08

या नु श्वेताव् अवो दिव उच्चरात उप द्युभिः ।
इन्द्राग्न्योर् अनु व्रतम् उहाना यन्ति सिन्धवो यान् सीम् बन्धाद् अमुञ्चतां नभन्ताम् अन्यके समे ॥

8.040.09

पूर्वीष् ट इन्द्रोपमातयः पूर्वीर् उत प्रशस्तयः सूनो हिन्वस्य हरिवः ।
वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्ताम् अन्यके समे ॥

8.040.10

तं शिशीता सुवृक्तिभिस् त्वेषं सत्वानम् ऋग्मियम् ।
उतो नु चिद् य ओजसा शुष्णस्याण्डानि भेदति जेषत् स्वर्वतीर् अपो नभन्ताम् अन्यके समे ॥

8.040.11

तं शिशीता स्वध्वरं सत्यं सत्वानम् ऋत्वियम् ।
उतो नु चिद् य ओहत आण्डा शुष्णस्य भेदत्य् अजैः स्वर्वतीर् अपो नभन्ताम् अन्यके समे ॥

8.040.12

एवेन्द्राग्निभ्याम् पितृवन् नवीयो मन्धातृवद् अङ्गिरस्वद् अवाचि ।
त्रिधातुना शर्मणा पातम् अस्मान् वयं स्याम पतयो रयीणाम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc