भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.042

8.042.01

अस्तभ्नाद् द्याम् असुरो विश्ववेदा अमिमीत वरिमाणम् पृथिव्याः ।
आसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥

8.042.02

एवा वन्दस्व वरुणम् बृहन्तं नमस्या धीरम् अमृतस्य गोपाम् ।
स नः शर्म त्रिवरूथं वि यंसत् पातं नो द्यावापृथिवी उपस्थे ॥

8.042.03

इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि ।
ययाति विश्वा दुरिता तरेम सुतर्माणम् अधि नावं रुहेम ॥

8.042.04

आ वां ग्रावाणो अश्विना धीभिर् विप्रा अचुच्यवुः ।
नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥

8.042.05

यथा वाम् अत्रिर् अश्विना गीर्भिर् विप्रो अजोहवीत् ।
नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥

8.042.06

एवा वाम् अह्व ऊतये यथाहुवन्त मेधिराः ।
नासत्या सोमपीतये नभन्ताम् अन्यके समे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc