भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.035

8.035.01

अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर् वसुभिः सचाभुवा ।
सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥

8.035.02

विश्वाभिर् धीभिर् भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा ।
सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥

8.035.03

विश्वैर् देवैस् त्रिभिर् एकादशैर् इहाद्भिर् मरुद्भिर् भृगुभिः सचाभुवा ।
सजोषसा उषसा सूर्येण च सोमम् पिबतम् अश्विना ॥

8.035.04

जुषेथां यज्ञम् बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् ।
सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥

8.035.05

स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् ।
सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥

8.035.06

गिरो जुषेथाम् अध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् ।
सजोषसा उषसा सूर्येण चेषं नो वोळ्हम् अश्विना ॥

8.035.07

हारिद्रवेव पतथो वनेद् उप सोमं सुतम् महिषेवाव गच्छथः ।
सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥

8.035.08

हंसाव् इव पतथो अध्वगाव् इव सोमं सुतम् महिषेवाव गच्छथः ।
सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥

8.035.09

श्येनाव् इव पतथो हव्यदातये सोमं सुतम् महिषेवाव गच्छथः ।
सजोषसा उषसा सूर्येण च त्रिर् वर्तिर् यातम् अश्विना ॥

8.035.10

पिबतं च तृप्णुतं चा च गच्छतम् प्रजां च धत्तं द्रविणं च धत्तम् ।
सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥

8.035.11

जयतं च प्र स्तुतं च प्र चावतम् प्रजां च धत्तं द्रविणं च धत्तम् ।
सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥

8.035.12

हतं च शत्रून् यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् ।
सजोषसा उषसा सूर्येण चोर्जं नो धत्तम् अश्विना ॥

8.035.13

मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् ।
सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥

8.035.14

अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् ।
सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥

8.035.15

ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर् गच्छथो हवम् ।
सजोषसा उषसा सूर्येण चादित्यैर् यातम् अश्विना ॥

8.035.16

ब्रह्म जिन्वतम् उत जिन्वतं धियो हतं रक्षांसि सेधतम् अमीवाः ।
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥

8.035.17

क्षत्रं जिन्वतम् उत जिन्वतं नॄन् हतं रक्षांसि सेधतम् अमीवाः ।
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥

8.035.18

धेनूर् जिन्वतम् उत जिन्वतं विशो हतं रक्षांसि सेधतम् अमीवाः ।
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥

8.035.19

अत्रेर् इव शृणुतम् पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता ।
सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥

8.035.20

सर्गाँ इव सृजतं सुष्टुतीर् उप श्यावाश्वस्य सुन्वतो मदच्युता ।
सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥

8.035.21

रश्मीँर् इव यच्छतम् अध्वराँ उप श्यावाश्वस्य सुन्वतो मदच्युता ।
सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥

8.035.22

अर्वाग् रथं नि यच्छतम् पिबतं सोम्यम् मधु ।
आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥

8.035.23

नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये ।
आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥

8.035.24

स्वाहाकृतस्य तृम्पतं सुतस्य देवाव् अन्धसः ।
आ यातम् अश्विना गतम् अवस्युर् वाम् अहं हुवे धत्तं रत्नानि दाशुषे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc