भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.034

8.034.01

एन्द्र याहि हरिभिर् उप कण्वस्य सुष्टुतिम् ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.02

आ त्वा ग्रावा वदन्न् इह सोमी घोषेण यच्छतु ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.03

अत्रा वि नेमिर् एषाम् उरां न धूनुते वृकः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.04

आ त्वा कण्वा इहावसे हवन्ते वाजसातये ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.05

दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.06

स्मत्पुरंधिर् न आ गहि विश्वतोधीर् न ऊतये ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.07

आ नो याहि महेमते सहस्रोते शतामघ ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.08

आ त्वा होता मनुर्हितो देवत्रा वक्षद् ईड्यः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.09

आ त्वा मदच्युता हरी श्येनम् पक्षेव वक्षतः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.10

आ याह्य् अर्य आ परि स्वाहा सोमस्य पीतये ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.11

आ नो याह्य् उपश्रुत्य् उक्थेषु रणया इह ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.12

सरूपैर् आ सु नो गहि सम्भृतैः सम्भृताश्वः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.13

आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.14

आ नो गव्यान्य् अश्व्या सहस्रा शूर दर्दृहि ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.15

आ नः सहस्रशो भरायुतानि शतानि च ।
दिवो अमुष्य शासतो दिवं यय दिवावसो ॥

8.034.16

आ यद् इन्द्रश् च दद्वहे सहस्रं वसुरोचिषः ।
ओजिष्ठम् अश्व्यम् पशुम् ॥

8.034.17

य ऋज्रा वातरंहसो ऽरुषासो रघुष्यदः ।
भ्राजन्ते सूर्या इव ॥

8.034.18

पारावतस्य रातिषु द्रवच्चक्रेष्व् आशुषु ।
तिष्ठं वनस्य मध्य आ ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc