ऋग्वेद · अध्याय 8.036
अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमम् मदाय कं शतक्रतो ।
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वाँ इन्द्र सत्पते ॥
प्राव स्तोतारम् मघवन्न् अव त्वाम् पिबा सोमम् मदाय कं शतक्रतो ।
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वाँ इन्द्र सत्पते ॥
ऊर्जा देवाँ अवस्य् ओजसा त्वाम् पिबा सोमम् मदाय कं शतक्रतो ।
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वाँ इन्द्र सत्पते ॥
जनिता दिवो जनिता पृथिव्याः पिबा सोमम् मदाय कं शतक्रतो ।
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वाँ इन्द्र सत्पते ॥
जनिताश्वानां जनिता गवाम् असि पिबा सोमम् मदाय कं शतक्रतो ।
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वाँ इन्द्र सत्पते ॥
अत्रीणां स्तोमम् अद्रिवो महस् कृधि पिबा सोमम् मदाय कं शतक्रतो ।
यं ते भागम् अधारयन् विश्वाः सेहानः पृतना उरु ज्रयः सम् अप्सुजिन् मरुत्वाँ इन्द्र सत्पते ॥
श्यावाश्वस्य सुन्वतस् तथा शृणु यथाशृणोर् अत्रेः कर्माणि कृण्वतः ।
प्र त्रसदस्युम् आविथ त्वम् एक इन् नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0