ऋग्वेद · अध्याय 8.033
वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥
स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥
कण्वेभिर् धृष्णव् आ धृषद् वाजं दर्षि सहस्रिणम् ।
पिशङ्गरूपम् मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे ॥
पाहि गायान्धसो मद इन्द्राय मेध्यातिथे ।
यः सम्मिश्लो हर्योर् यः सुते सचा वज्री रथो हिरण्ययः ॥
यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर् गृणे ।
य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिद् आरितः ॥
यो धृषितो यो ऽवृतो यो अस्ति श्मश्रुषु श्रितः ।
विभूतद्युम्नश् च्यवनः पुरुष्टुतः क्रत्वा गौर् इव शाकिनः ॥
क ईं वेद सुते सचा पिबन्तं कद् वयो दधे ।
अयं यः पुरो विभिनत्त्य् ओजसा मन्दानः शिप्र्य् अन्धसः ॥
दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
नकिष् ट्वा नि यमद् आ सुते गमो महाँश् चरस्य् ओजसा ॥
य उग्रः सन्न् अनिष्टृतः स्थिरो रणाय संस्कृतः ।
यदि स्तोतुर् मघवा शृणवद् धवं नेन्द्रो योषत्य् आ गमत् ॥
सत्यम् इत्था वृषेद् असि वृषजूतिर् नो ऽवृतः ।
वृषा ह्य् उग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥
वृषणस् ते अभीशवो वृषा कशा हिरण्ययी ।
वृषा रथो मघवन् वृषणा हरी वृषा त्वं शतक्रतो ॥
वृषा सोता सुनोतु ते वृषन्न् ऋजीपिन्न् आ भर ।
वृषा दधन्वे वृषणं नदीष्व् आ तुभ्यं स्थातर् हरीणाम् ॥
एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् ।
नायम् अच्छा मघवा शृणवद् गिरो ब्रह्मोक्था च सुक्रतुः ॥
वहन्तु त्वा रथेष्ठाम् आ हरयो रथयुजः ।
तिरश् चिद् अर्यं सवनानि वृत्रहन्न् अन्येषां या शतक्रतो ॥
अस्माकम् अद्यान्तमं स्तोमं धिष्व महामह ।
अस्माकं ते सवना सन्तु शंतमा मदाय द्युक्ष सोमपाः ॥
नहि षस् तव नो मम शास्त्रे अन्यस्य रण्यति ।
यो अस्मान् वीर आनयत् ॥
इन्द्रश् चिद् घा तद् अब्रवीत् स्त्रिया अशास्यम् मनः ।
उतो अह क्रतुं रघुम् ॥
सप्ती चिद् घा मदच्युता मिथुना वहतो रथम् ।
एवेद् धूर् वृष्ण उत्तरा ॥
अधः पश्यस्व मोपरि संतराम् पादकौ हर ।
मा ते कशप्लकौ दृशन् स्त्री हि ब्रह्मा बभूविथ ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0