भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.032

8.032.01

प्र कृतान्य् ऋजीषिणः कण्वा इन्द्रस्य गाथया ।
मदे सोमस्य वोचत ॥

8.032.02

यः सृबिन्दम् अनर्शनिम् पिप्रुं दासम् अहीशुवम् ।
वधीद् उग्रो रिणन्न् अपः ॥

8.032.03

न्य् अर्बुदस्य विष्टपं वर्ष्माणम् बृहतस् तिर ।
कृषे तद् इन्द्र पौंस्यम् ॥

8.032.04

प्रति श्रुताय वो धृषत् तूर्णाशं न गिरेर् अधि ।
हुवे सुशिप्रम् ऊतये ॥

8.032.05

स गोर् अश्वस्य वि व्रजम् मन्दानः सोम्येभ्यः ।
पुरं न शूर दर्षसि ॥

8.032.06

यदि मे रारणः सुत उक्थे वा दधसे चनः ।
आराद् उप स्वधा गहि ॥

8.032.07

वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः ।
त्वं नो जिन्व सोमपाः ॥

8.032.08

उत नः पितुम् आ भर संरराणो अविक्षितम् ।
मघवन् भूरि ते वसु ॥

8.032.09

उत नो गोमतस् कृधि हिरण्यवतो अश्विनः ।
इळाभिः सं रभेमहि ॥

8.032.10

बृबदुक्थं हवामहे सृप्रकरस्नम् ऊतये ।
साधु कृण्वन्तम् अवसे ॥

8.032.11

यः संस्थे चिच् छतक्रतुर् आद् ईं कृणोति वृत्रहा ।
जरितृभ्यः पुरूवसुः ॥

8.032.12

स नः शक्रश् चिद् आ शकद् दानवाँ अन्तराभरः ।
इन्द्रो विश्वाभिर् ऊतिभिः ॥

8.032.13

यो रायो3 ऽवनिर् महान् सुपारः सुन्वतः सखा ।
तम् इन्द्रम् अभि गायत ॥

8.032.14

आयन्तारम् महि स्थिरम् पृतनासु श्रवोजितम् ।
भूरेर् ईशानम् ओजसा ॥

8.032.15

नकिर् अस्य शचीनां नियन्ता सूनृतानाम् ।
नकिर् वक्ता न दाद् इति ॥

8.032.16

न नूनम् ब्रह्मणाम् ऋणम् प्राशूनाम् अस्ति सुन्वताम् ।
न सोमो अप्रता पपे ॥

8.032.17

पन्य इद् उप गायत पन्य उक्थानि शंसत ।
ब्रह्मा कृणोत पन्य इत् ॥

8.032.18

पन्य आ दर्दिरच् छता सहस्रा वाज्य् अवृतः ।
इन्द्रो यो यज्वनो वृधः ॥

8.032.19

वि षू चर स्वधा अनु कृष्टीनाम् अन्व् आहुवः ।
इन्द्र पिब सुतानाम् ॥

8.032.20

पिब स्वधैनवानाम् उत यस् तुग्र्ये सचा ।
उतायम् इन्द्र यस् तव ॥

8.032.21

अतीहि मन्युषाविणं सुषुवांसम् उपारणे ।
इमं रातं सुतम् पिब ॥

8.032.22

इहि तिस्रः परावत इहि पञ्च जनाँ अति ।
धेना इन्द्रावचाकशत् ॥

8.032.23

सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः ।
निम्नम् आपो न सध्र्यक् ॥

8.032.24

अध्वर्यव् आ तु हि षिञ्च सोमं वीराय शिप्रिणे ।
भरा सुतस्य पीतये ॥

8.032.25

य उद्नः फलिगम् भिनन् न्य1क् सिन्धूँर् अवासृजत् ।
यो गोषु पक्वं धारयत् ॥

8.032.26

अहन् वृत्रम् ऋचीषम और्णवाभम् अहीशुवम् ।
हिमेनाविध्यद् अर्बुदम् ॥

8.032.27

प्र व उग्राय निष्टुरे ऽषाळ्हाय प्रसक्षिणे ।
देवत्तम् ब्रह्म गायत ॥

8.032.28

यो विश्वान्य् अभि व्रता सोमस्य मदे अन्धसः ।
इन्द्रो देवेषु चेतति ॥

8.032.29

इह त्या सधमाद्या हरी हिरण्यकेश्या ।
वोळ्हाम् अभि प्रयो हितम् ॥

8.032.30

अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
सोमपेयाय वक्षतः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc