ऋग्वेद · अध्याय 8.022
ओ त्यम् अह्व आ रथम् अद्या दंसिष्ठम् ऊतये ।
यम् अश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥
पूर्वायुषं सुहवम् पुरुस्पृहम् भुज्युं वाजेषु पूर्व्यम् ।
सचनावन्तं सुमतिभिः सोभरे विद्वेषसम् अनेहसम् ॥
इह त्या पुरुभूतमा देवा नमोभिर् अश्विना ।
अर्वाचीना स्व् अवसे करामहे गन्तारा दाशुषो गृहम् ॥
युवो रथस्य परि चक्रम् ईयत ईर्मान्यद् वाम् इषण्यति ।
अस्माँ अच्छा सुमतिर् वां शुभस् पती आ धेनुर् इव धावतु ॥
रथो यो वां त्रिवन्धुरो हिरण्याभीशुर् अश्विना ।
परि द्यावापृथिवी भूषति श्रुतस् तेन नासत्या गतम् ॥
दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः ।
ता वाम् अद्य सुमतिभिः शुभस् पती अश्विना प्र स्तुवीमहि ॥
उप नो वाजिनीवसू यातम् ऋतस्य पथिभिः ।
येभिस् तृक्षिं वृषणा त्रासदस्यवम् महे क्षत्राय जिन्वथः ॥
अयं वाम् अद्रिभिः सुतः सोमो नरा वृषण्वसू ।
आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥
आ हि रुहतम् अश्विना रथे कोशे हिरण्यये वृषण्वसू ।
युञ्जाथाम् पीवरीर् इषः ॥
याभिः पक्थम् अवथो याभिर् अध्रिगुं याभिर् बभ्रुं विजोषसम् ।
ताभिर् नो मक्षू तूयम् अश्विना गतम् भिषज्यतं यद् आतुरम् ॥
यद् अध्रिगावो अध्रिगू इदा चिद् अह्नो अश्विना हवामहे ।
वयं गीर्भिर् विपन्यवः ॥
ताभिर् आ यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् ।
इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस् ताभिर् आ गतम् ॥
ताव् इदा चिद् अहानां ताव् अश्विना वन्दमान उप ब्रुवे ।
ता उ नमोभिर् ईमहे ॥
ताव् इद् दोषा ता उषसि शुभस् पती ता यामन् रुद्रवर्तनी ।
मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्राव् अति ख्यतम् ॥
आ सुग्म्याय सुग्म्यम् प्राता रथेनाश्विना वा सक्षणी ।
हुवे पितेव सोभरी ॥
मनोजवसा वृषणा मदच्युता मक्षुंगमाभिर् ऊतिभिः ।
आरात्ताच् चिद् भूतम् अस्मे अवसे पूर्वीभिः पुरुभोजसा ॥
आ नो अश्वावद् अश्विना वर्तिर् यासिष्टम् मधुपातमा नरा ।
गोमद् दस्रा हिरण्यवत् ॥
सुप्रावर्गं सुवीर्यं सुष्ठु वार्यम् अनाधृष्टं रक्षस्विना ।
अस्मिन्न् आ वाम् आयाने वाजिनीवसू विश्वा वामानि धीमहि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0