भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.023

8.023.01

ईळिष्वा हि प्रतीव्य1ं यजस्व जातवेदसम् ।
चरिष्णुधूमम् अगृभीतशोचिषम् ॥

8.023.02

दामानं विश्वचर्षणे ऽग्निं विश्वमनो गिरा ।
उत स्तुषे विष्पर्धसो रथानाम् ॥

8.023.03

येषाम् आबाध ऋग्मिय इषः पृक्षश् च निग्रभे ।
उपविदा वह्निर् विन्दते वसु ॥

8.023.04

उद् अस्य शोचिर् अस्थाद् दीदियुषो व्य् अ1जरम् ।
तपुर्जम्भस्य सुद्युतो गणश्रियः ॥

8.023.05

उद् उ तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।
अभिख्या भासा बृहता शुशुक्वनिः ॥

8.023.06

अग्ने याहि सुशस्तिभिर् हव्या जुह्वान आनुषक् ।
यथा दूतो बभूथ हव्यवाहनः ॥

8.023.07

अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् ।
तम् अया वाचा गृणे तम् उ वः स्तुषे ॥

8.023.08

यज्ञेभिर् अद्भुतक्रतुं यं कृपा सूदयन्त इत् ।
मित्रं न जने सुधितम् ऋतावनि ॥

8.023.09

ऋतावानम् ऋतायवो यज्ञस्य साधनं गिरा ।
उपो एनं जुजुषुर् नमसस् पदे ॥

8.023.10

अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः ।
होता यो अस्ति विक्ष्व् आ यशस्तमः ॥

8.023.11

अग्ने तव त्ये अजरेन्धानासो बृहद् भाः ।
अश्वा इव वृषणस् तविषीयवः ॥

8.023.12

स त्वं न ऊर्जाम् पते रयिं रास्व सुवीर्यम् ।
प्राव नस् तोके तनये समत्स्व् आ ॥

8.023.13

यद् वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि ।
विश्वेद् अग्निः प्रति रक्षांसि सेधति ॥

8.023.14

श्रुष्ट्य् अग्ने नवस्य मे स्तोमस्य वीर विश्पते ।
नि मायिनस् तपुषा रक्षसो दह ॥

8.023.15

न तस्य मायया चन रिपुर् ईशीत मर्त्यः ।
यो अग्नये ददाश हव्यदातिभिः ॥

8.023.16

व्यश्वस् त्वा वसुविदम् उक्षण्युर् अप्रीणाद् ऋषिः ।
महो राये तम् उ त्वा सम् इधीमहि ॥

8.023.17

उशना काव्यस् त्वा नि होतारम् असादयत् ।
आयजिं त्वा मनवे जातवेदसम् ॥

8.023.18

विश्वे हि त्वा सजोषसो देवासो दूतम् अक्रत ।
श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥

8.023.19

इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः ।
पावकं कृष्णवर्तनिं विहायसम् ॥

8.023.20

तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् ।
विशाम् अग्निम् अजरम् प्रत्नम् ईड्यम् ॥

8.023.21

यो अस्मै हव्यदातिभिर् आहुतिम् मर्तो ऽविधत् ।
भूरि पोषं स धत्ते वीरवद् यशः ॥

8.023.22

प्रथमं जातवेदसम् अग्निं यज्ञेषु पूर्व्यम् ।
प्रति स्रुग् एति नमसा हविष्मती ॥

8.023.23

आभिर् विधेमाग्नये ज्येष्ठाभिर् व्यश्ववत् ।
मंहिष्ठाभिर् मतिभिः शुक्रशोचिषे ॥

8.023.24

नूनम् अर्च विहायसे स्तोमेभिः स्थूरयूपवत् ।
ऋषे वैयश्व दम्यायाग्नये ॥

8.023.25

अतिथिम् मानुषाणां सूनुं वनस्पतीनाम् ।
विप्रा अग्निम् अवसे प्रत्नम् ईळते ॥

8.023.26

महो विश्वाँ अभि षतो3 ऽभि हव्यानि मानुषा ।
अग्ने नि षत्सि नमसाधि बर्हिषि ॥

8.023.27

वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः ।
सुवीर्यस्य प्रजावतो यशस्वतः ॥

8.023.28

त्वं वरो सुषाम्णे ऽग्ने जनाय चोदय ।
सदा वसो रातिं यविष्ठ शश्वते ॥

8.023.29

त्वं हि सुप्रतूर् असि त्वं नो गोमतीर् इषः ।
महो रायः सातिम् अग्ने अपा वृधि ॥

8.023.30

अग्ने त्वं यशा अस्य् आ मित्रावरुणा वह ।
ऋतावाना सम्राजा पूतदक्षसा ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc