भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.021

8.021.01

वयम् उ त्वाम् अपूर्व्य स्थूरं न कच् चिद् भरन्तो ऽवस्यवः ।
वाजे चित्रं हवामहे ॥

8.021.02

उप त्वा कर्मन्न् ऊतये स नो युवोग्रश् चक्राम यो धृषत् ।
त्वाम् इद् ध्य् अवितारं ववृमहे सखाय इन्द्र सानसिम् ॥

8.021.03

आ याहीम इन्दवो ऽश्वपते गोपत उर्वरापते ।
सोमं सोमपते पिब ॥

8.021.04

वयं हि त्वा बन्धुमन्तम् अबन्धवो विप्रास इन्द्र येमिम ।
या ते धामानि वृषभ तेभिर् आ गहि विश्वेभिः सोमपीतये ॥

8.021.05

सीदन्तस् ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे ।
अभि त्वाम् इन्द्र नोनुमः ॥

8.021.06

अच्छा च त्वैना नमसा वदामसि किम् मुहुश् चिद् वि दीधयः ।
सन्ति कामासो हरिवो ददिष् ट्वं स्मो वयं सन्ति नो धियः ॥

8.021.07

नूत्ना इद् इन्द्र ते वयम् ऊती अभूम नहि नू ते अद्रिवः ।
विद्मा पुरा परीणसः ॥

8.021.08

विद्मा सखित्वम् उत शूर भोज्य1म् आ ते ता वज्रिन्न् ईमहे ।
उतो समस्मिन्न् आ शिशीहि नो वसो वाजे सुशिप्र गोमति ॥

8.021.09

यो न इदम्-इदम् पुरा प्र वस्य आनिनाय तम् उ वः स्तुषे ।
सखाय इन्द्रम् ऊतये ॥

8.021.10

हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
आ तु नः स वयति गव्यम् अश्व्यं स्तोतृभ्यो मघवा शतम् ॥

8.021.11

त्वया ह स्विद् युजा वयम् प्रति श्वसन्तं वृषभ ब्रुवीमहि ।
संस्थे जनस्य गोमतः ॥

8.021.12

जयेम कारे पुरुहूत कारिणो ऽभि तिष्ठेम दूढ्यः ।
नृभिर् वृत्रं हन्याम शूशुयाम चावेर् इन्द्र प्र णो धियः ॥

8.021.13

अभ्रातृव्यो अना त्वम् अनापिर् इन्द्र जनुषा सनाद् असि ।
युधेद् आपित्वम् इच्छसे ॥

8.021.14

नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
यदा कृणोषि नदनुं सम् ऊहस्य् आद् इत् पितेव हूयसे ॥

8.021.15

मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः ।
नि षदाम सचा सुते ॥

8.021.16

मा ते गोदत्र निर् अराम राधस इन्द्र मा ते गृहामहि ।
दृळ्हा चिद् अर्यः प्र मृशाभ्य् आ भर न ते दामान आदभे ॥

8.021.17

इन्द्रो वा घेद् इयन् मघं सरस्वती वा सुभगा ददिर् वसु ।
त्वं वा चित्र दाशुषे ॥

8.021.18

चित्र इद् राजा राजका इद् अन्यके यके सरस्वतीम् अनु ।
पर्जन्य इव ततनद् धि वृष्ट्या सहस्रम् अयुता ददत् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc