ऋग्वेद · अध्याय 8.020
आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः ।
स्थिरा चिन् नमयिष्णवः ॥
वीळुपविभिर् मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः ।
इषा नो अद्या गता पुरुस्पृहो यज्ञम् आ सोभरीयवः ॥
विद्मा हि रुद्रियाणां शुष्मम् उग्रम् मरुतां शिमीवताम् ।
विष्णोर् एषस्य मीळ्हुषाम् ॥
वि द्वीपानि पापतन् तिष्ठद् दुच्छुनोभे युजन्त रोदसी ।
प्र धन्वान्य् ऐरत शुभ्रखादयो यद् एजथ स्वभानवः ॥
अच्युता चिद् वो अज्मन्न् आ नानदति पर्वतासो वनस्पतिः ।
भूमिर् यामेषु रेजते ॥
अमाय वो मरुतो यातवे द्यौर् जिहीत उत्तरा बृहत् ।
यत्रा नरो देदिशते तनूष्व् आ त्वक्षांसि बाह्वोजसः ॥
स्वधाम् अनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः ।
वहन्ते अह्रुतप्सवः ॥
गोभिर् वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये ।
गोबन्धवः सुजातास इषे भुजे महान्तो नः स्परसे नु ॥
प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् ।
हव्या वृषप्रयाव्णे ॥
वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना ।
आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥
समानम् अञ्ज्य् एषां वि भ्राजन्ते रुक्मासो अधि बाहुषु ।
दविद्युतत्य् ऋष्टयः ॥
त उग्रासो वृषण उग्रबाहवो नकिष् टनूषु येतिरे ।
स्थिरा धन्वान्य् आयुधा रथेषु वो ऽनीकेष्व् अधि श्रियः ॥
येषाम् अर्णो न सप्रथो नाम त्वेषं शश्वताम् एकम् इद् भुजे ।
वयो न पित्र्यं सहः ॥
तान् वन्दस्व मरुतस् ताँ उप स्तुहि तेषां हि धुनीनाम् ।
अराणां न चरमस् तद् एषां दाना मह्ना तद् एषाम् ॥
सुभगः स व ऊतिष्व् आस पूर्वासु मरुतो व्युष्टिषु ।
यो वा नूनम् उतासति ॥
यस्य वा यूयम् प्रति वाजिनो नर आ हव्या वीतये गथ ।
अभि ष द्युम्नैर् उत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥
यथा रुद्रस्य सूनवो दिवो वशन्त्य् असुरस्य वेधसः ।
युवानस् तथेद् असत् ॥
ये चार्हन्ति मरुतः सुदानवः स्मन् मीळ्हुषश् चरन्ति ये ।
अतश् चिद् आ न उप वस्यसा हृदा युवान आ ववृध्वम् ॥
यून ऊ षु नविष्ठया वृष्णः पावकाँ अभि सोभरे गिरा ।
गाय गा इव चर्कृषत् ॥
साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु ।
वृष्णश् चन्द्रान् न सुश्रवस्तमान् गिरा वन्दस्व मरुतो अह ॥
गावश् चिद् घा समन्यवः सजात्येन मरुतः सबन्धवः ।
रिहते ककुभो मिथः ॥
मर्तश् चिद् वो नृतवो रुक्मवक्षस उप भ्रातृत्वम् आयति ।
अधि नो गात मरुतः सदा हि व आपित्वम् अस्ति निध्रुवि ॥
मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः ।
यूयं सखायः सप्तयः ॥
याभिः सिन्धुम् अवथ याभिस् तूर्वथ याभिर् दशस्यथा क्रिविम् ।
मयो नो भूतोतिभिर् मयोभुवः शिवाभिर् असचद्विषः ॥
यत् सिन्धौ यद् असिक्न्यां यत् समुद्रेषु मरुतः सुबर्हिषः ।
यत् पर्वतेषु भेषजम् ॥
विश्वम् पश्यन्तो बिभृथा तनूष्व् आ तेना नो अधि वोचत ।
क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतम् पुनः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0