भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.019

8.019.01

तं गूर्धया स्वर्णरं देवासो देवम् अरतिं दधन्विरे ।
देवत्रा हव्यम् ओहिरे ॥

8.019.02

विभूतरातिं विप्र चित्रशोचिषम् अग्निम् ईळिष्व यन्तुरम् ।
अस्य मेधस्य सोम्यस्य सोभरे प्रेम् अध्वराय पूर्व्यम् ॥

8.019.03

यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारम् अमर्त्यम् ।
अस्य यज्ञस्य सुक्रतुम् ॥

8.019.04

ऊर्जो नपातं सुभगं सुदीदितिम् अग्निं श्रेष्ठशोचिषम् ।
स नो मित्रस्य वरुणस्य सो अपाम् आ सुम्नं यक्षते दिवि ॥

8.019.05

यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये ।
यो नमसा स्वध्वरः ॥

8.019.06

तस्येद् अर्वन्तो रंहयन्त आशवस् तस्य द्युम्नितमं यशः ।
न तम् अंहो देवकृतं कुतश् चन न मर्त्यकृतं नशत् ॥

8.019.07

स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जाम् पते ।
सुवीरस् त्वम् अस्मयुः ॥

8.019.08

प्रशंसमानो अतिथिर् न मित्रियो ऽग्नी रथो न वेद्यः ।
त्वे क्षेमासो अपि सन्ति साधवस् त्वं राजा रयीणाम् ॥

8.019.09

सो अद्धा दाश्वध्वरो ऽग्ने मर्तः सुभग स प्रशंस्यः ।
स धीभिर् अस्तु सनिता ॥

8.019.10

यस्य त्वम् ऊर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते ।
सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥

8.019.11

यस्याग्निर् वपुर् गृहे स्तोमं चनो दधीत विश्ववार्यः ।
हव्या वा वेविषद् विषः ॥

8.019.12

विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु ।
अवोदेवम् उपरिमर्त्यं कृधि वसो विविदुषो वचः ॥

8.019.13

यो अग्निं हव्यदातिभिर् नमोभिर् वा सुदक्षम् आविवासति ।
गिरा वाजिरशोचिषम् ॥

8.019.14

समिधा यो निशिती दाशद् अदितिं धामभिर् अस्य मर्त्यः ।
विश्वेत् स धीभिः सुभगो जनाँ अति द्युम्नैर् उद्न इव तारिषत् ॥

8.019.15

तद् अग्ने द्युम्नम् आ भर यत् सासहत् सदने कं चिद् अत्रिणम् ।
मन्युं जनस्य दूढ्यः ॥

8.019.16

येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः ।
वयं तत् ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥

8.019.17

ते घेद् अग्ने स्वाध्यो3 ये त्वा विप्र निदधिरे नृचक्षसम् ।
विप्रासो देव सुक्रतुम् ॥

8.019.18

त इद् वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि ।
त इद् वाजेभिर् जिग्युर् महद् धनं ये त्वे कामं न्येरिरे ॥

8.019.19

भद्रो नो अग्निर् आहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
भद्रा उत प्रशस्तयः ॥

8.019.20

भद्रम् मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः ।
अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥

8.019.21

ईळे गिरा मनुर्हितं यं देवा दूतम् अरतिं न्येरिरे ।
यजिष्ठं हव्यवाहनम् ॥

8.019.22

तिग्मजम्भाय तरुणाय राजते प्रयो गायस्य् अग्नये ।
यः पिंशते सूनृताभिः सुवीर्यम् अग्निर् घृतेभिर् आहुतः ॥

8.019.23

यदी घृतेभिर् आहुतो वाशीम् अग्निर् भरत उच् चाव च ।
असुर इव निर्णिजम् ॥

8.019.24

यो हव्यान्य् ऐरयता मनुर्हितो देव आसा सुगन्धिना ।
विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥

8.019.25

यद् अग्ने मर्त्यस् त्वं स्याम् अहम् मित्रमहो अमर्त्यः ।
सहसः सूनव् आहुत ॥

8.019.26

न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य ।
न मे स्तोतामतीवा न दुर्हितः स्याद् अग्ने न पापया ॥

8.019.27

पितुर् न पुत्रः सुभृतो दुरोण आ देवाँ एतु प्र णो हविः ॥

8.019.28

तवाहम् अग्न ऊतिभिर् नेदिष्ठाभिः सचेय जोषम् आ वसो ।
सदा देवस्य मर्त्यः ॥

8.019.29

तव क्रत्वा सनेयं तव रातिभिर् अग्ने तव प्रशस्तिभिः ।
त्वाम् इद् आहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥

8.019.30

प्र सो अग्ने तवोतिभिः सुवीराभिस् तिरते वाजभर्मभिः ।
यस्य त्वं सख्यम् आवरः ॥

8.019.31

तव द्रप्सो नीलवान् वाश ऋत्विय इन्धानः सिष्णव् आ ददे ।
त्वम् महीनाम् उषसाम् असि प्रियः क्षपो वस्तुषु राजसि ॥

8.019.32

तम् आगन्म सोभरयः सहस्रमुष्कं स्वभिष्टिम् अवसे ।
सम्राजं त्रासदस्यवम् ॥

8.019.33

यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव ।
विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥

8.019.34

यम् आदित्यासो अद्रुहः पारं नयथ मर्त्यम् ।
मघोनां विश्वेषां सुदानवः ॥

8.019.35

यूयं राजानः कं चिच् चर्षणीसहः क्षयन्तम् मानुषाँ अनु ।
वयं ते वो वरुण मित्रार्यमन् स्यामेद् ऋतस्य रथ्यः ॥

8.019.36

अदान् मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर् वधूनाम् ।
मंहिष्ठो अर्यः सत्पतिः ॥

8.019.37

उत मे प्रयियोर् वयियोः सुवास्त्वा अधि तुग्वनि ।
तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद् वसुर् दियानाम् पतिः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc