ऋग्वेद · अध्याय 8.015
तम् व् अभि प्र गायत पुरुहूतम् पुरुष्टुतम् ।
इन्द्रं गीर्भिस् तविषम् आ विवासत ॥
यस्य द्विबर्हसो बृहत् सहो दाधार रोदसी ।
गिरीँर् अज्राँ अपः स्वर् वृषत्वना ॥
स राजसि पुरुष्टुतँ एको वृत्राणि जिघ्नसे ।
इन्द्र जैत्रा श्रवस्या च यन्तवे ॥
तं ते मदं गृणीमसि वृषणम् पृत्सु सासहिम् ।
उ लोककृत्नुम् अद्रिवो हरिश्रियम् ॥
येन ज्योतींष्य् आयवे मनवे च विवेदिथ ।
मन्दानो अस्य बर्हिषो वि राजसि ॥
तद् अद्या चित् त उक्थिनो ऽनु ष्टुवन्ति पूर्वथा ।
वृषपत्नीर् अपो जया दिवे-दिवे ॥
तव त्यद् इन्द्रियम् बृहत् तव शुष्मम् उत क्रतुम् ।
वज्रं शिशाति धिषणा वरेण्यम् ॥
तव द्यौर् इन्द्र पौंस्यम् पृथिवी वर्धति श्रवः ।
त्वाम् आपः पर्वतासश् च हिन्विरे ॥
त्वां विष्णुर् बृहन् क्षयो मित्रो गृणाति वरुणः ।
त्वां शर्धो मदत्य् अनु मारुतम् ॥
त्वं वृषा जनानाम् मंहिष्ठ इन्द्र जज्ञिषे ।
सत्रा विश्वा स्वपत्यानि दधिषे ॥
सत्रा त्वम् पुरुष्टुतँ एको वृत्राणि तोशसे ।
नान्य इन्द्रात् करणम् भूय इन्वति ॥
यद् इन्द्र मन्मशस् त्वा नाना हवन्त ऊतये ।
अस्माकेभिर् नृभिर् अत्रा स्वर् जय ॥
अरं क्षयाय नो महे विश्वा रूपाण्य् आविशन् ।
इन्द्रं जैत्राय हर्षया शचीपतिम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0