ऋग्वेद · अध्याय 8.014
यद् इन्द्राहं यथा त्वम् ईशीय वस्व एक इत् ।
स्तोता मे गोषखा स्यात् ॥
शिक्षेयम् अस्मै दित्सेयं शचीपते मनीषिणे ।
यद् अहं गोपतिः स्याम् ॥
धेनुष् ट इन्द्र सूनृता यजमानाय सुन्वते ।
गाम् अश्वम् पिप्युषी दुहे ॥
न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।
यद् दित्ससि स्तुतो मघम् ॥
यज्ञ इन्द्रम् अवर्धयद् यद् भूमिं व्य् अवर्तयत् ।
चक्राण ओपशं दिवि ॥
वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।
ऊतिम् इन्द्रा वृणीमहे ॥
व्य् अ1न्तरिक्षम् अतिरन् मदे सोमस्य रोचना ।
इन्द्रो यद् अभिनद् वलम् ॥
उद् गा आजद् अङ्गिरोभ्य आविष् कृण्वन् गुहा सतीः ।
अर्वाञ्चं नुनुदे वलम् ॥
इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च ।
स्थिराणि न पराणुदे ॥
अपाम् ऊर्मिर् मदन्न् इव स्तोम इन्द्राजिरायते ।
वि ते मदा अराजिषुः ॥
त्वं हि स्तोमवर्धन इन्द्रास्य् उक्थवर्धनः ।
स्तोतॄणाम् उत भद्रकृत् ॥
इन्द्रम् इत् केशिना हरी सोमपेयाय वक्षतः ।
उप यज्ञं सुराधसम् ॥
अपाम् फेनेन नमुचेः शिर इन्द्रोद् अवर्तयः ।
विश्वा यद् अजयः स्पृधः ॥
मायाभिर् उत्सिसृप्सत इन्द्र द्याम् आरुरुक्षतः ।
अव दस्यूँर् अधूनुथाः ॥
असुन्वाम् इन्द्र संसदं विषूचीं व्य् अनाशयः ।
सोमपा उत्तरो भवन् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0