भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.016

8.016.01

प्र सम्राजं चर्षणीनाम् इन्द्रं स्तोता नव्यं गीर्भिः ।
नरं नृषाहम् मंहिष्ठम् ॥

8.016.02

यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्या ।
अपाम् अवो न समुद्रे ॥

8.016.03

तं सुष्टुत्या विवासे ज्येष्ठराजम् भरे कृत्नुम् ।
महो वाजिनं सनिभ्यः ॥

8.016.04

यस्यानूना गभीरा मदा उरवस् तरुत्राः ।
हर्षुमन्तः शूरसातौ ॥

8.016.05

तम् इद् धनेषु हितेष्व् अधिवाकाय हवन्ते ।
येषाम् इन्द्रस् ते जयन्ति ॥

8.016.06

तम् इच् च्यौत्नैर् आर्यन्ति तं कृतेभिश् चर्षणयः ।
एष इन्द्रो वरिवस्कृत् ॥

8.016.07

इन्द्रो ब्रह्मेन्द्र ऋषिर् इन्द्रः पुरू पुरुहूतः ।
महान् महीभिः शचीभिः ॥

8.016.08

स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः ।
एकश् चित् सन्न् अभिभूतिः ॥

8.016.09

तम् अर्केभिस् तं सामभिस् तं गायत्रैश् चर्षणयः ।
इन्द्रं वर्धन्ति क्षितयः ॥

8.016.10

प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु ।
सासह्वांसं युधामित्रान् ॥

8.016.11

स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
इन्द्रो विश्वा अति द्विषः ॥

8.016.12

स त्वं न इन्द्र वाजेभिर् दशस्या च गातुया च ।
अच्छा च नः सुम्नं नेषि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc