भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.012

8.012.01

य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
येना हंसि न्य् अ1त्रिणं तम् ईमहे ॥

8.012.02

येना दशग्वम् अध्रिगुं वेपयन्तं स्वर्णरम् ।
येना समुद्रम् आविथा तम् ईमहे ॥

8.012.03

येन सिन्धुम् महीर् अपो रथाँ इव प्रचोदयः ।
पन्थाम् ऋतस्य यातवे तम् ईमहे ॥

8.012.04

इमं स्तोमम् अभिष्टये घृतं न पूतम् अद्रिवः ।
येना नु सद्य ओजसा ववक्षिथ ॥

8.012.05

इमं जुषस्व गिर्वणः समुद्र इव पिन्वते ।
इन्द्र विश्वाभिर् ऊतिभिर् ववक्षिथ ॥

8.012.06

यो नो देवः परावतः सखित्वनाय मामहे ।
दिवो न वृष्टिम् प्रथयन् ववक्षिथ ॥

8.012.07

ववक्षुर् अस्य केतव उत वज्रो गभस्त्योः ।
यत् सूर्यो न रोदसी अवर्धयत् ॥

8.012.08

यदि प्रवृद्ध सत्पते सहस्रम् महिषाँ अघः ।
आद् इत् त इन्द्रियम् महि प्र वावृधे ॥

8.012.09

इन्द्रः सूर्यस्य रश्मिभिर् न्य् अर्शसानम् ओषति ।
अग्निर् वनेव सासहिः प्र वावृधे ॥

8.012.10

इयं त ऋत्वियावती धीतिर् एति नवीयसी ।
सपर्यन्ती पुरुप्रिया मिमीत इत् ॥

8.012.11

गर्भो यज्ञस्य देवयुः क्रतुम् पुनीत आनुषक् ।
स्तोमैर् इन्द्रस्य वावृधे मिमीत इत् ॥

8.012.12

सनिर् मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये ।
प्राची वाशीव सुन्वते मिमीत इत् ॥

8.012.13

यं विप्रा उक्थवाहसो ऽभिप्रमन्दुर् आयवः ।
घृतं न पिप्य आसन्य् ऋतस्य यत् ॥

8.012.14

उत स्वराजे अदितिः स्तोमम् इन्द्राय जीजनत् ।
पुरुप्रशस्तम् ऊतय ऋतस्य यत् ॥

8.012.15

अभि वह्नय ऊतये ऽनूषत प्रशस्तये ।
न देव विव्रता हरी ऋतस्य यत् ॥

8.012.16

यत् सोमम् इन्द्र विष्णवि यद् वा घ त्रित आप्त्ये ।
यद् वा मरुत्सु मन्दसे सम् इन्दुभिः ॥

8.012.17

यद् वा शक्र परावति समुद्रे अधि मन्दसे ।
अस्माकम् इत् सुते रणा सम् इन्दुभिः ॥

8.012.18

यद् वासि सुन्वतो वृधो यजमानस्य सत्पते ।
उक्थे वा यस्य रण्यसि सम् इन्दुभिः ॥

8.012.19

देवं-देवं वो ऽवस इन्द्रम्-इन्द्रं गृणीषणि ।
अधा यज्ञाय तुर्वणे व्य् आनशुः ॥

8.012.20

यज्ञेभिर् यज्ञवाहसं सोमेभिः सोमपातमम् ।
होत्राभिर् इन्द्रं वावृधुर् व्य् आनशुः ॥

8.012.21

महीर् अस्य प्रणीतयः पूर्वीर् उत प्रशस्तयः ।
विश्वा वसूनि दाशुषे व्य् आनशुः ॥

8.012.22

इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः ।
इन्द्रं वाणीर् अनूषता सम् ओजसे ॥

8.012.23

महान्तम् महिना वयं स्तोमेभिर् हवनश्रुतम् ।
अर्कैर् अभि प्र णोनुमः सम् ओजसे ॥

8.012.24

न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् ।
अमाद् इद् अस्य तित्विषे सम् ओजसः ॥

8.012.25

यद् इन्द्र पृतनाज्ये देवास् त्वा दधिरे पुरः ।
आद् इत् ते हर्यता हरी ववक्षतुः ॥

8.012.26

यदा वृत्रं नदीवृतं शवसा वज्रिन्न् अवधीः ।
आद् इत् ते हर्यता हरी ववक्षतुः ॥

8.012.27

यदा ते विष्णुर् ओजसा त्रीणि पदा विचक्रमे ।
आद् इत् ते हर्यता हरी ववक्षतुः ॥

8.012.28

यदा ते हर्यता हरी वावृधाते दिवे-दिवे ।
आद् इत् ते विश्वा भुवनानि येमिरे ॥

8.012.29

यदा ते मारुतीर् विशस् तुभ्यम् इन्द्र नियेमिरे ।
आद् इत् ते विश्वा भुवनानि येमिरे ॥

8.012.30

यदा सूर्यम् अमुं दिवि शुक्रं ज्योतिर् अधारयः ।
आद् इत् ते विश्वा भुवनानि येमिरे ॥

8.012.31

इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः ।
जामिम् पदेव पिप्रतीम् प्राध्वरे ॥

8.012.32

यद् अस्य धामनि प्रिये समीचीनासो अस्वरन् ।
नाभा यज्ञस्य दोहना प्राध्वरे ॥

8.012.33

सुवीर्यं स्वश्व्यं सुगव्यम् इन्द्र दद्धि नः ।
होतेव पूर्वचित्तये प्राध्वरे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc