भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.013

8.013.01

इन्द्रः सुतेषु सोमेषु क्रतुम् पुनीत उक्थ्यम् ।
विदे वृधस्य दक्षसो महान् हि षः ॥

8.013.02

स प्रथमे व्योमनि देवानां सदने वृधः ।
सुपारः सुश्रवस्तमः सम् अप्सुजित् ॥

8.013.03

तम् अह्वे वाजसातय इन्द्रम् भराय शुष्मिणम् ।
भवा नः सुम्ने अन्तमः सखा वृधे ॥

8.013.04

इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः ।
मन्दानो अस्य बर्हिषो वि राजसि ॥

8.013.05

नूनं तद् इन्द्र दद्धि नो यत् त्वा सुन्वन्त ईमहे ।
रयिं नश् चित्रम् आ भरा स्वर्विदम् ॥

8.013.06

स्तोता यत् ते विचर्षणिर् अतिप्रशर्धयद् गिरः ।
वया इवानु रोहते जुषन्त यत् ॥

8.013.07

प्रत्नवज् जनया गिरः शृणुधी जरितुर् हवम् ।
मदे-मदे ववक्षिथा सुकृत्वने ॥

8.013.08

क्रीळन्त्य् अस्य सूनृता आपो न प्रवता यतीः ।
अया धिया य उच्यते पतिर् दिवः ॥

8.013.09

उतो पतिर् य उच्यते कृष्टीनाम् एक इद् वशी ।
नमोवृधैर् अवस्युभिः सुते रण ॥

8.013.10

स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा ।
गन्तारा दाशुषो गृहं नमस्विनः ॥

8.013.11

तूतुजानो महेमते ऽश्वेभिः प्रुषितप्सुभिः ।
आ याहि यज्ञम् आशुभिः शम् इद् धि ते ॥

8.013.12

इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय ।
श्रवः सूरिभ्यो अमृतं वसुत्वनम् ॥

8.013.13

हवे त्वा सूर उदिते हवे मध्यंदिने दिवः ।
जुषाण इन्द्र सप्तिभिर् न आ गहि ॥

8.013.14

आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः ।
तन्तुं तनुष्व पूर्व्यं यथा विदे ॥

8.013.15

यच् छक्रासि परावति यद् अर्वावति वृत्रहन् ।
यद् वा समुद्रे अन्धसो ऽवितेद् असि ॥

8.013.16

इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः ।
इन्द्रे हविष्मतीर् विशो अराणिषुः ॥

8.013.17

तम् इद् विप्रा अवस्यवः प्रवत्वतीभिर् ऊतिभिः ।
इन्द्रं क्षोणीर् अवर्धयन् वया इव ॥

8.013.18

त्रिकद्रुकेषु चेतनं देवासो यज्ञम् अत्नत ।
तम् इद् वर्धन्तु नो गिरः सदावृधम् ॥

8.013.19

स्तोता यत् ते अनुव्रत उक्थान्य् ऋतुथा दधे ।
शुचिः पावक उच्यते सो अद्भुतः ॥

8.013.20

तद् इद् रुद्रस्य चेतति यह्वम् प्रत्नेषु धामसु ।
मनो यत्रा वि तद् दधुर् विचेतसः ॥

8.013.21

यदि मे सख्यम् आवर इमस्य पाह्य् अन्धसः ।
येन विश्वा अति द्विषो अतारिम ॥

8.013.22

कदा त इन्द्र गिर्वणः स्तोता भवाति शंतमः ।
कदा नो गव्ये अश्व्ये वसौ दधः ॥

8.013.23

उत ते सुष्टुता हरी वृषणा वहतो रथम् ।
अजुर्यस्य मदिन्तमं यम् ईमहे ॥

8.013.24

तम् ईमहे पुरुष्टुतं यह्वम् प्रत्नाभिर् ऊतिभिः ।
नि बर्हिषि प्रिये सदद् अध द्विता ॥

8.013.25

वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिर् ऊतिभिः ।
धुक्षस्व पिप्युषीम् इषम् अवा च नः ॥

8.013.26

इन्द्र त्वम् अवितेद् असीत्था स्तुवतो अद्रिवः ।
ऋताद् इयर्मि ते धियम् मनोयुजम् ॥

8.013.27

इह त्या सधमाद्या युजानः सोमपीतये ।
हरी इन्द्र प्रतद्वसू अभि स्वर ॥

8.013.28

अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् ।
उतो मरुत्वतीर् विशो अभि प्रयः ॥

8.013.29

इमा अस्य प्रतूर्तयः पदं जुषन्त यद् दिवि ।
नाभा यज्ञस्य सं दधुर् यथा विदे ॥

8.013.30

अयं दीर्घाय चक्षसे प्राचि प्रयत्य् अध्वरे ।
मिमीते यज्ञम् आनुषग् विचक्ष्य ॥

8.013.31

वृषायम् इन्द्र ते रथ उतो ते वृषणा हरी ।
वृषा त्वं शतक्रतो वृषा हवः ॥

8.013.32

वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
वृषा यज्ञो यम् इन्वसि वृषा हवः ॥

8.013.33

वृषा त्वा वृषणं हुवे वज्रिञ् चित्राभिर् ऊतिभिः ।
वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc