ऋग्वेद · अध्याय 8.011
त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ ।
त्वं यज्ञेष्व् ईड्यः ॥
त्वम् असि प्रशस्यो विदथेषु सहन्त्य ।
अग्ने रथीर् अध्वराणाम् ॥
स त्वम् अस्मद् अप द्विषो युयोधि जातवेदः ।
अदेवीर् अग्ने अरातीः ॥
अन्ति चित् सन्तम् अह यज्ञम् मर्तस्य रिपोः ।
नोप वेषि जातवेदः ॥
मर्ता अमर्त्यस्य ते भूरि नाम मनामहे ।
विप्रासो जातवेदसः ॥
विप्रं विप्रासो ऽवसे देवम् मर्तास ऊतये ।
अग्निं गीर्भिर् हवामहे ॥
आ ते वत्सो मनो यमत् परमाच् चित् सधस्थात् ।
अग्ने त्वांकामया गिरा ॥
पुरुत्रा हि सदृङ्ङ् असि विशो विश्वा अनु प्रभुः ।
समत्सु त्वा हवामहे ॥
समत्स्व् अग्निम् अवसे वाजयन्तो हवामहे ।
वाजेषु चित्रराधसम् ॥
प्रत्नो हि कम् ईड्यो अध्वरेषु सनाच् च होता नव्यश् च सत्सि ।
स्वां चाग्ने तन्वम् पिप्रयस्वास्मभ्यं च सौभगम् आ यजस्व ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0