ऋग्वेद · अध्याय 8.010
यत् स्थो दीर्घप्रसद्मनि यद् वादो रोचने दिवः ।
यद् वा समुद्रे अध्य् आकृते गृहे ऽत आ यातम् अश्विना ॥
यद् वा यज्ञम् मनवे सम्मिमिक्षथुर् एवेत् काण्वस्य बोधतम् ।
बृहस्पतिं विश्वान् देवाँ अहं हुव इन्द्राविष्णू अश्विनाव् आशुहेषसा ॥
त्या न्व् अ1श्विना हुवे सुदंससा गृभे कृता ।
ययोर् अस्ति प्र णः सख्यं देवेष्व् अध्य् आप्यम् ॥
ययोर् अधि प्र यज्ञा असूरे सन्ति सूरयः ।
ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर् या पिबतः सोम्यम् मधु ॥
यद् अद्याश्विनाव् अपाग् यत् प्राक् स्थो वाजिनीवसू ।
यद् द्रुह्यव्य् अनवि तुर्वशे यदौ हुवे वाम् अथ मा गतम् ॥
यद् अन्तरिक्षे पतथः पुरुभुजा यद् वेमे रोदसी अनु ।
यद् वा स्वधाभिर् अधितिष्ठथो रथम् अत आ यातम् अश्विना ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0