ऋग्वेद · अध्याय 8.009
आ नूनम् अश्विना युवं वत्सस्य गन्तम् अवसे ।
प्रास्मै यच्छतम् अवृकम् पृथु च्छर्दिर् युयुतं या अरातयः ॥
यद् अन्तरिक्षे यद् दिवि यत् पञ्च मानुषाँ अनु ।
नृम्णं तद् धत्तम् अश्विना ॥
ये वां दंसांस्य् अश्विना विप्रासः परिमामृशुः ।
एवेत् काण्वस्य बोधतम् ॥
अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।
अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥
यद् अप्सु यद् वनस्पतौ यद् ओषधीषु पुरुदंससा कृतम् ।
तेन माविष्टम् अश्विना ॥
यन् नासत्या भुरण्यथो यद् वा देव भिषज्यथः ।
अयं वां वत्सो मतिभिर् न विन्धते हविष्मन्तं हि गच्छथः ॥
आ नूनम् अश्विनोर् ऋषिः स्तोमं चिकेत वामया ।
आ सोमम् मधुमत्तमं घर्मं सिञ्चाद् अथर्वणि ॥
आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।
आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥
यद् अद्य वां नासत्योक्थैर् आचुच्युवीमहि ।
यद् वा वाणीभिर् अश्विनेवेत् काण्वस्य बोधतम् ॥
यद् वां कक्षीवाँ उत यद् व्यश्व ऋषिर् यद् वां दीर्घतमा जुहाव ।
पृथी यद् वां वैन्यः सादनेष्व् एवेद् अतो अश्विना चेतयेथाम् ॥
यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस् तनूपा ।
वर्तिस् तोकाय तनयाय यातम् ॥
यद् इन्द्रेण सरथं याथो अश्विना यद् वा वायुना भवथः समोकसा ।
यद् आदित्येभिर् ऋभुभिः सजोषसा यद् वा विष्णोर् विक्रमणेषु तिष्ठथः ॥
यद् अद्याश्विनाव् अहं हुवेय वाजसातये ।
यत् पृत्सु तुर्वणे सहस् तच् छ्रेष्ठम् अश्विनोर् अवः ॥
आ नूनं यातम् अश्विनेमा हव्यानि वां हिता ।
इमे सोमासो अधि तुर्वशे यदाव् इमे कण्वेषु वाम् अथ ॥
यन् नासत्या पराके अर्वाके अस्ति भेषजम् ।
तेन नूनं विमदाय प्रचेतसा छर्दिर् वत्साय यच्छतम् ॥
अभुत्स्य् उ प्र देव्या साकं वाचाहम् अश्विनोः ।
व्य् आवर् देव्य् आ मतिं वि रातिम् मर्त्येभ्यः ॥
प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।
प्र यज्ञहोतर् आनुषक् प्र मदाय श्रवो बृहत् ॥
यद् उषो यासि भानुना सं सूर्येण रोचसे ।
आ हायम् अश्विनो रथो वर्तिर् याति नृपाय्यम् ॥
यद् आपीतासो अंशवो गावो न दुह्र ऊधभिः ।
यद् वा वाणीर् अनूषत प्र देवयन्तो अश्विना ॥
प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।
प्र दक्षाय प्रचेतसा ॥
यन् नूनं धीभिर् अश्विना पितुर् योना निषीदथः ।
यद् वा सुम्नेभिर् उक्थ्या ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0