ऋग्वेद · अध्याय 8.008
आ नो विश्वाभिर् ऊतिभिर् अश्विना गच्छतं युवम् ।
दस्रा हिरण्यवर्तनी पिबतं सोम्यम् मधु ॥
आ नूनं यातम् अश्विना रथेन सूर्यत्वचा ।
भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥
आ यातं नहुषस् पर्य् आन्तरिक्षात् सुवृक्तिभिः ।
पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥
आ नो यातं दिवस् पर्य् आन्तरिक्षाद् अधप्रिया ।
पुत्रः कण्वस्य वाम् इह सुषाव सोम्यम् मधु ॥
आ नो यातम् उपश्रुत्य् अश्विना सोमपीतये ।
स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर् नरा ॥
यच् चिद् धि वाम् पुर ऋषयो जुहूरे ऽवसे नरा ।
आ यातम् अश्विना गतम् उपेमां सुष्टुतिम् मम ॥
दिवश् चिद् रोचनाद् अध्य् आ नो गन्तं स्वर्विदा ।
धीभिर् वत्सप्रचेतसा स्तोमेभिर् हवनश्रुता ॥
किम् अन्ये पर्य् आसते ऽस्मत् स्तोमेभिर् अश्विना ।
पुत्रः कण्वस्य वाम् ऋषिर् गीर्भिर् वत्सो अवीवृधत् ॥
आ वां विप्र इहावसे ऽह्वत् स्तोमेभिर् अश्विना ।
अरिप्रा वृत्रहन्तमा ता नो भूतम् मयोभुवा ॥
आ यद् वां योषणा रथम् अतिष्ठद् वाजिनीवसू ।
विश्वान्य् अश्विना युवम् प्र धीतान्य् अगच्छतम् ॥
अतः सहस्रनिर्णिजा रथेना यातम् अश्विना ।
वत्सो वाम् मधुमद् वचो ऽशंसीत् काव्यः कविः ॥
पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् ।
स्तोमम् मे अश्विनाव् इमम् अभि वह्नी अनूषाताम् ॥
आ नो विश्वान्य् अश्विना धत्तं राधांस्य् अह्रया ।
कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥
यन् नासत्या परावति यद् वा स्थो अध्य् अम्बरे ।
अतः सहस्रनिर्णिजा रथेना यातम् अश्विना ॥
यो वां नासत्याव् ऋषिर् गीर्भिर् वत्सो अवीवृधत् ।
तस्मै सहस्रनिर्णिजम् इषं धत्तं घृतश्चुतम् ॥
प्रास्मा ऊर्जं घृतश्चुतम् अश्विना यच्छतं युवम् ।
यो वां सुम्नाय तुष्टवद् वसूयाद् दानुनस् पती ॥
आ नो गन्तं रिशादसेमं स्तोमम् पुरुभुजा ।
कृतं नः सुश्रियो नरेमा दातम् अभिष्टये ॥
आ वां विश्वाभिर् ऊतिभिः प्रियमेधा अहूषत ।
राजन्ताव् अध्वराणाम् अश्विना यामहूतिषु ॥
आ नो गन्तम् मयोभुवाश्विना शम्भुवा युवम् ।
यो वां विपन्यू धीतिभिर् गीर्भिर् वत्सो अवीवृधत् ॥
याभिः कण्वम् मेधातिथिं याभिर् वशं दशव्रजम् ।
याभिर् गोशर्यम् आवतं ताभिर् नो ऽवतं नरा ॥
याभिर् नरा त्रसदस्युम् आवतं कृत्व्ये धने ।
ताभिः ष्व् अ1स्माँ अश्विना प्रावतं वाजसातये ॥
प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्व् अश्विना ।
पुरुत्रा वृत्रहन्तमा ता नो भूतम् पुरुस्पृहा ॥
त्रीणि पदान्य् अश्विनोर् आविः सान्ति गुहा परः ।
कवी ऋतस्य पत्मभिर् अर्वाग् जीवेभ्यस् परि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0