ऋग्वेद · अध्याय 8.007
प्र यद् वस् त्रिष्टुभम् इषम् मरुतो विप्रो अक्षरत् ।
वि पर्वतेषु राजथ ॥
यद् अङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् ।
नि पर्वता अहासत ॥
उद् ईरयन्त वायुभिर् वाश्रासः पृश्निमातरः ।
धुक्षन्त पिप्युषीम् इषम् ॥
वपन्ति मरुतो मिहम् प्र वेपयन्ति पर्वतान् ।
यद् यामं यान्ति वायुभिः ॥
नि यद् यामाय वो गिरिर् नि सिन्धवो विधर्मणे ।
महे शुष्माय येमिरे ॥
युष्माँ उ नक्तम् ऊतये युष्मान् दिवा हवामहे ।
युष्मान् प्रयत्य् अध्वरे ॥
उद् उ त्ये अरुणप्सवश् चित्रा यामेभिर् ईरते ।
वाश्रा अधि ष्णुना दिवः ॥
सृजन्ति रश्मिम् ओजसा पन्थां सूर्याय यातवे ।
ते भानुभिर् वि तस्थिरे ॥
इमाम् मे मरुतो गिरम् इमं स्तोमम् ऋभुक्षणः ।
इमम् मे वनता हवम् ॥
त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु ।
उत्सं कवन्धम् उद्रिणम् ॥
मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे ।
आ तू न उप गन्तन ॥
यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे ।
उत प्रचेतसो मदे ॥
आ नो रयिम् मदच्युतम् पुरुक्षुं विश्वधायसम् ।
इयर्ता मरुतो दिवः ॥
अधीव यद् गिरीणां यामं शुभ्रा अचिध्वम् ।
सुवानैर् मन्दध्व इन्दुभिः ॥
एतावतश् चिद् एषां सुम्नम् भिक्षेत मर्त्यः ।
अदाभ्यस्य मन्मभिः ॥
ये द्रप्सा इव रोदसी धमन्त्य् अनु वृष्टिभिः ।
उत्सं दुहन्तो अक्षितम् ॥
उद् उ स्वानेभिर् ईरत उद् रथैर् उद् उ वायुभिः ।
उत् स्तोमैः पृश्निमातरः ॥
येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् ।
राये सु तस्य धीमहि ॥
इमा उ वः सुदानवो घृतं न पिप्युषीर् इषः ।
वर्धान् काण्वस्य मन्मभिः ॥
क्व नूनं सुदानवो मदथा वृक्तबर्हिषः ।
ब्रह्मा को वः सपर्यति ॥
नहि ष्म यद् ध वः पुरा स्तोमेभिर् वृक्तबर्हिषः ।
शर्धाँ ऋतस्य जिन्वथ ॥
सम् उ त्ये महतीर् अपः सं क्षोणी सम् उ सूर्यम् ।
सं वज्रम् पर्वशो दधुः ॥
वि वृत्रम् पर्वशो ययुर् वि पर्वताँ अराजिनः ।
चक्राणा वृष्णि पौंस्यम् ॥
अनु त्रितस्य युध्यतः शुष्मम् आवन्न् उत क्रतुम् ।
अन्व् इन्द्रं वृत्रतूर्ये ॥
विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन् हिरण्ययीः ।
शुभ्रा व्य् अञ्जत श्रिये ॥
उशना यत् परावत उक्ष्णो रन्ध्रम् अयातन ।
द्यौर् न चक्रदद् भिया ॥
आ नो मखस्य दावने ऽश्वैर् हिरण्यपाणिभिः ।
देवास उप गन्तन ॥
यद् एषाम् पृषती रथे प्रष्टिर् वहति रोहितः ।
यान्ति शुभ्रा रिणन्न् अपः ॥
सुषोमे शर्यणावत्य् आर्जीके पस्त्यावति ।
ययुर् निचक्रया नरः ॥
कदा गच्छाथ मरुत इत्था विप्रं हवमानम् ।
मार्डीकेभिर् नाधमानम् ॥
कद् ध नूनं कधप्रियो यद् इन्द्रम् अजहातन ।
को वः सखित्व ओहते ॥
सहो षु णो वज्रहस्तैः कण्वासो अग्निम् मरुद्भिः ।
स्तुषे हिरण्यवाशीभिः ॥
ओ षु वृष्णः प्रयज्यून् आ नव्यसे सुविताय ।
ववृत्यां चित्रवाजान् ॥
गिरयश् चिन् नि जिहते पर्शानासो मन्यमानाः ।
पर्वताश् चिन् नि येमिरे ॥
आक्ष्णयावानो वहन्त्य् अन्तरिक्षेण पततः ।
धातारः स्तुवते वयः ॥
अग्निर् हि जानि पूर्व्यश् छन्दो न सूरो अर्चिषा ।
ते भानुभिर् वि तस्थिरे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0