भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.006

8.006.01

महाँ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाँ इव ।
स्तोमैर् वत्सस्य वावृधे ॥

8.006.02

प्रजाम् ऋतस्य पिप्रतः प्र यद् भरन्त वह्नयः ।
विप्रा ऋतस्य वाहसा ॥

8.006.03

कण्वा इन्द्रं यद् अक्रत स्तोमैर् यज्ञस्य साधनम् ।
जामि ब्रुवत आयुधम् ॥

8.006.04

सम् अस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
समुद्रायेव सिन्धवः ॥

8.006.05

ओजस् तद् अस्य तित्विष उभे यत् समवर्तयत् ।
इन्द्रश् चर्मेव रोदसी ॥

8.006.06

वि चिद् वृत्रस्य दोधतो वज्रेण शतपर्वणा ।
शिरो बिभेद वृष्णिना ॥

8.006.07

इमा अभि प्र णोनुमो विपाम् अग्रेषु धीतयः ।
अग्नेः शोचिर् न दिद्युतः ॥

8.006.08

गुहा सतीर् उप त्मना प्र यच् छोचन्त धीतयः ।
कण्वा ऋतस्य धारया ॥

8.006.09

प्र तम् इन्द्र नशीमहि रयिं गोमन्तम् अश्विनम् ।
प्र ब्रह्म पूर्वचित्तये ॥

8.006.10

अहम् इद् धि पितुष् परि मेधाम् ऋतस्य जग्रभ ।
अहं सूर्य इवाजनि ॥

8.006.11

अहम् प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् ।
येनेन्द्रः शुष्मम् इद् दधे ॥

8.006.12

ये त्वाम् इन्द्र न तुष्टुवुर् ऋषयो ये च तुष्टुवुः ।
ममेद् वर्धस्व सुष्टुतः ॥

8.006.13

यद् अस्य मन्युर् अध्वनीद् वि वृत्रम् पर्वशो रुजन् ।
अपः समुद्रम् ऐरयत् ॥

8.006.14

नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि ।
वृषा ह्य् उग्र शृण्विषे ॥

8.006.15

न द्याव इन्द्रम् ओजसा नान्तरिक्षाणि वज्रिणम् ।
न विव्यचन्त भूमयः ॥

8.006.16

यस् त इन्द्र महीर् अपः स्तभूयमान आशयत् ।
नि तम् पद्यासु शिश्नथः ॥

8.006.17

य इमे रोदसी मही समीची समजग्रभीत् ।
तमोभिर् इन्द्र तं गुहः ॥

8.006.18

य इन्द्र यतयस् त्वा भृगवो ये च तुष्टुवुः ।
ममेद् उग्र श्रुधी हवम् ॥

8.006.19

इमास् त इन्द्र पृश्नयो घृतं दुहत आशिरम् ।
एनाम् ऋतस्य पिप्युषीः ॥

8.006.20

या इन्द्र प्रस्वस् त्वासा गर्भम् अचक्रिरन् ।
परि धर्मेव सूर्यम् ॥

8.006.21

त्वाम् इच् छवसस् पते कण्वा उक्थेन वावृधुः ।
त्वां सुतास इन्दवः ॥

8.006.22

तवेद् इन्द्र प्रणीतिषूत प्रशस्तिर् अद्रिवः ।
यज्ञो वितन्तसाय्यः ॥

8.006.23

आ न इन्द्र महीम् इषम् पुरं न दर्षि गोमतीम् ।
उत प्रजां सुवीर्यम् ॥

8.006.24

उत त्यद् आश्वश्व्यं यद् इन्द्र नाहुषीष्व् आ ।
अग्रे विक्षु प्रदीदयत् ॥

8.006.25

अभि व्रजं न तत्निषे सूर उपाकचक्षसम् ।
यद् इन्द्र मृळयासि नः ॥

8.006.26

यद् अङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः ।
महाँ अपार ओजसा ॥

8.006.27

तं त्वा हविष्मतीर् विश उप ब्रुवत ऊतये ।
उरुज्रयसम् इन्दुभिः ॥

8.006.28

उपह्वरे गिरीणां संगथे च नदीनाम् ।
धिया विप्रो अजायत ॥

8.006.29

अतः समुद्रम् उद्वतश् चिकित्वाँ अव पश्यति ।
यतो विपान एजति ॥

8.006.30

आद् इत् प्रत्नस्य रेतसो ज्योतिष् पश्यन्ति वासरम् ।
परो यद् इध्यते दिवा ॥

8.006.31

कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् ।
उतो शविष्ठ वृष्ण्यम् ॥

8.006.32

इमाम् म इन्द्र सुष्टुतिं जुषस्व प्र सु माम् अव ।
उत प्र वर्धया मतिम् ॥

8.006.33

उत ब्रह्मण्या वयं तुभ्यम् प्रवृद्ध वज्रिवः ।
विप्रा अतक्ष्म जीवसे ॥

8.006.34

अभि कण्वा अनूषतापो न प्रवता यतीः ।
इन्द्रं वनन्वती मतिः ॥

8.006.35

इन्द्रम् उक्थानि वावृधुः समुद्रम् इव सिन्धवः ।
अनुत्तमन्युम् अजरम् ॥

8.006.36

आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् ।
इमम् इन्द्र सुतम् पिब ॥

8.006.37

त्वाम् इद् वृत्रहन्तम जनासो वृक्तबर्हिषः ।
हवन्ते वाजसातये ॥

8.006.38

अनु त्वा रोदसी उभे चक्रं न वर्त्य् एतशम् ।
अनु सुवानास इन्दवः ॥

8.006.39

मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति ।
मत्स्वा विवस्वतो मती ॥

8.006.40

वावृधान उप द्यवि वृषा वज्र्य् अरोरवीत् ।
वृत्रहा सोमपातमः ॥

8.006.41

ऋषिर् हि पूर्वजा अस्य् एक ईशान ओजसा ।
इन्द्र चोष्कूयसे वसु ॥

8.006.42

अस्माकं त्वा सुताँ उप वीतपृष्ठा अभि प्रयः ।
शतं वहन्तु हरयः ॥

8.006.43

इमां सु पूर्व्यां धियम् मधोर् घृतस्य पिप्युषीम् ।
कण्वा उक्थेन वावृधुः ॥

8.006.44

इन्द्रम् इद् विमहीनाम् मेधे वृणीत मर्त्यः ।
इन्द्रं सनिष्युर् ऊतये ॥

8.006.45

अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
सोमपेयाय वक्षतः ॥

8.006.46

शतम् अहं तिरिन्दिरे सहस्रम् पर्शाव् आ ददे ।
राधांसि याद्वानाम् ॥

8.006.47

त्रीणि शतान्य् अर्वतां सहस्रा दश गोनाम् ।
ददुष् पज्राय साम्ने ॥

8.006.48

उद् आनट् ककुहो दिवम् उष्ट्राञ् चतुर्युजो ददत् ।
श्रवसा याद्वं जनम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc