ऋग्वेद · अध्याय 8.005
दूराद् इहेव यत् सत्य् अरुणप्सुर् अशिश्वितत् ।
वि भानुं विश्वधातनत् ॥
नृवद् दस्रा मनोयुजा रथेन पृथुपाजसा ।
सचेथे अश्विनोषसम् ॥
युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत ।
वाचं दूतो यथोहिषे ॥
पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू ।
स्तुषे कण्वासो अश्विना ॥
मंहिष्ठा वाजसातमेषयन्ता शुभस् पती ।
गन्तारा दाशुषो गृहम् ॥
ता सुदेवाय दाशुषे सुमेधाम् अवितारिणीम् ।
घृतैर् गव्यूतिम् उक्षतम् ॥
आ नः स्तोमम् उप द्रवत् तूयं श्येनेभिर् आशुभिः ।
यातम् अश्वेभिर् अश्विना ॥
येभिस् तिस्रः परावतो दिवो विश्वानि रोचना ।
त्रीँर् अक्तून् परिदीयथः ॥
उत नो गोमतीर् इष उत सातीर् अहर्विदा ।
वि पथः सातये सितम् ॥
आ नो गोमन्तम् अश्विना सुवीरं सुरथं रयिम् ।
वोळ्हम् अश्वावतीर् इषः ॥
वावृधाना शुभस् पती दस्रा हिरण्यवर्तनी ।
पिबतं सोम्यम् मधु ॥
अस्मभ्यं वाजिनीवसू मघवद्भ्यश् च सप्रथः ।
छर्दिर् यन्तम् अदाभ्यम् ॥
नि षु ब्रह्म जनानां याविष्टं तूयम् आ गतम् ।
मो ष्व् अ1न्याँ उपारतम् ॥
अस्य पिबतम् अश्विना युवम् मदस्य चारुणः ।
मध्वो रातस्य धिष्ण्या ॥
अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् ।
पुरुक्षुं विश्वधायसम् ॥
पुरुत्रा चिद् धि वां नरा विह्वयन्ते मनीषिणः ।
वाघद्भिर् अश्विना गतम् ॥
जनासो वृक्तबर्हिषो हविष्मन्तो अरंकृतः ।
युवां हवन्ते अश्विना ॥
अस्माकम् अद्य वाम् अयं स्तोमो वाहिष्ठो अन्तमः ।
युवाभ्याम् भूत्व् अश्विना ॥
यो ह वाम् मधुनो दृतिर् आहितो रथचर्षणे ।
ततः पिबतम् अश्विना ॥
तेन नो वाजिनीवसू पश्वे तोकाय शं गवे ।
वहतम् पीवरीर् इषः ॥
उत नो दिव्या इष उत सिन्धूँर् अहर्विदा ।
अप द्वारेव वर्षथः ॥
कदा वां तौग्र्यो विधत् समुद्रे जहितो नरा ।
यद् वां रथो विभिष् पतात् ॥
युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये ।
शश्वद् ऊतीर् दशस्यथः ॥
ताभिर् आ यातम् ऊतिभिर् नव्यसीभिः सुशस्तिभिः ।
यद् वां वृषण्वसू हुवे ॥
यथा चित् कण्वम् आवतम् प्रियमेधम् उपस्तुतम् ।
अत्रिं शिञ्जारम् अश्विना ॥
यथोत कृत्व्ये धने ऽंशुं गोष्व् अगस्त्यम् ।
यथा वाजेषु सोभरिम् ॥
एतावद् वां वृषण्वसू अतो वा भूयो अश्विना ।
गृणन्तः सुम्नम् ईमहे ॥
रथं हिरण्यवन्धुरं हिरण्याभीशुम् अश्विना ।
आ हि स्थाथो दिविस्पृशम् ॥
हिरण्ययी वां रभिर् ईषा अक्षो हिरण्ययः ।
उभा चक्रा हिरण्यया ॥
तेन नो वाजिनीवसू परावतश् चिद् आ गतम् ।
उपेमां सुष्टुतिम् मम ॥
आ वहेथे पराकात् पूर्वीर् अश्नन्ताव् अश्विना ।
इषो दासीर् अमर्त्या ॥
आ नो द्युम्नैर् आ श्रवोभिर् आ राया यातम् अश्विना ।
पुरुश्चन्द्रा नासत्या ॥
एह वाम् प्रुषितप्सवो वयो वहन्तु पर्णिनः ।
अच्छा स्वध्वरं जनम् ॥
रथं वाम् अनुगायसं य इषा वर्तते सह ।
न चक्रम् अभि बाधते ॥
हिरण्ययेन रथेन द्रवत्पाणिभिर् अश्वैः ।
धीजवना नासत्या ॥
युवम् मृगं जागृवांसं स्वदथो वा वृषण्वसू ।
ता नः पृङ्क्तम् इषा रयिम् ॥
ता मे अश्विना सनीनां विद्यातं नवानाम् ।
यथा चिच् चैद्यः कशुः शतम् उष्ट्रानां ददत् सहस्रा दश गोनाम् ॥
यो मे हिरण्यसंदृशो दश राज्ञो अमंहत ।
अधस्पदा इच् चैद्यस्य कृष्टयश् चर्मम्ना अभितो जनाः ॥
माकिर् एना पथा गाद् येनेमे यन्ति चेदयः ।
अन्यो नेत् सूरिर् ओहते भूरिदावत्तरो जनः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0