भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.004

8.004.01

यद् इन्द्र प्राग् अपाग् उदङ् न्यग् वा हूयसे नृभिः ।
सिमा पुरू नृषूतो अस्य् आनवे ऽसि प्रशर्ध तुर्वशे ॥

8.004.02

यद् वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
कण्वासस् त्वा ब्रह्मभिः स्तोमवाहस इन्द्रा यच्छन्त्य् आ गहि ॥

8.004.03

यथा गौरो अपा कृतं तृष्यन्न् एत्य् अवेरिणम् ।
आपित्वे नः प्रपित्वे तूयम् आ गहि कण्वेषु सु सचा पिब ॥

8.004.04

मन्दन्तु त्वा मघवन्न् इन्द्रेन्दवो राधोदेयाय सुन्वते ।
आमुष्या सोमम् अपिबश् चमू सुतं ज्येष्ठं तद् दधिषे सहः ॥

8.004.05

प्र चक्रे सहसा सहो बभञ्ज मन्युम् ओजसा ।
विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे ॥

8.004.06

सहस्रेणेव सचते यवीयुधा यस् त आनळ् उपस्तुतिम् ।
पुत्रम् प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमüक्तिभिः ॥

8.004.07

मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।
महत् ते वृष्णो अभिचक्ष्यं कृतम् पश्येम तुर्वशं यदुम् ॥

8.004.08

सव्याम् अनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति ।
मध्वा सम्पृक्ताः सारघेण धेनवस् तूयम् एहि द्रवा पिब ॥

8.004.09

अश्वी रथी सुरूप इद् गोमाँ इद् इन्द्र ते सखा ।
श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभाम् उप ॥

8.004.10

ऋश्यो न तृष्यन्न् अवपानम् आ गहि पिबा सोमं वशाँ अनु ।
निमेघमानो मघवन् दिवे-दिव ओजिष्ठं दधिषे सहः ॥

8.004.11

अध्वर्यो द्रावया त्वं सोमम् इन्द्रः पिपासति ।
उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥

8.004.12

स्वयं चित् स मन्यते दाशुरिर् जनो यत्रा सोमस्य तृम्पसि ।
इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥

8.004.13

रथेष्ठायाध्वर्यवः सोमम् इन्द्राय सोतन ।
अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥

8.004.14

उप ब्रध्नं वावाता वृषणा हरी इन्द्रम् अपसु वक्षतः ।
अर्वाञ्चं त्वा सप्तयो ऽध्वरश्रियो वहन्तु सवनेद् उप ॥

8.004.15

प्र पूषणं वृणीमहे युज्याय पुरूवसुम् ।
स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥

8.004.16

सं नः शिशीहि भुरिजोर् इव क्षुरं रास्व रायो विमोचन ।
त्वे तन् नः सुवेदम् उस्रियं वसु यं त्वं हिनोषि मर्त्यम् ॥

8.004.17

वेमि त्वा पूषन्न् ऋञ्जसे वेमि स्तोतव आघृणे ।
न तस्य वेम्य् अरणं हि तद् वसो स्तुषे पज्राय साम्ने ॥

8.004.18

परा गावो यवसं कच् चिद् आघृणे नित्यं रेक्णो अमर्त्य ।
अस्माकम् पूषन्न् अविता शिवो भव मंहिष्ठो वाजसातये ॥

8.004.19

स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु ।
राज्ञस् त्वेषस्य सुभगस्य रातिषु तुर्वशेष्व् अमन्महि ॥

8.004.20

धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैर् अभिद्युभिः ।
षष्टिं सहस्रानु निर्मजाम् अजे निर् यूथानि गवाम् ऋषिः ॥

8.004.21

वृक्षाश् चिन् मे अभिपित्वे अरारणुः ।
गाम् भजन्त मेहनाश्वम् भजन्त मेहना ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc