भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 8.003

8.003.01

पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
आपिर् नो बोधि सधमाद्यो वृधे3 ऽस्माँ अवन्तु ते धियः ॥

8.003.02

भूयाम ते सुमतौ वाजिनो वयम् मा नः स्तर् अभिमातये ।
अस्माञ् चित्राभिर् अवताद् अभिष्टिभिर् आ नः सुम्नेषु यामय ॥

8.003.03

इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
पावकवर्णाः शुचयो विपश्चितो ऽभि स्तोमैर् अनूषत ॥

8.003.04

अयं सहस्रम् ऋषिभिः सहस्कृतः समुद्र इव पप्रथे ।
सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥

8.003.05

इन्द्रम् इद् देवतातय इन्द्रम् प्रयत्य् अध्वरे ।
इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥

8.003.06

इन्द्रो मह्ना रोदसी पप्रथच् छव इन्द्रः सूर्यम् अरोचयत् ।
इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥

8.003.07

अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिर् आयवः ।
समीचीनास ऋभवः सम् अस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥

8.003.08

अस्येद् इन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
अद्या तम् अस्य महिमानम् आयवो ऽनु ष्टुवन्ति पूर्वथा ॥

8.003.09

तत् त्वा यामि सुवीर्यं तद् ब्रह्म पूर्वचित्तये ।
येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वम् आविथ ॥

8.003.10

येना समुद्रम् असृजो महीर् अपस् तद् इन्द्र वृष्णि ते शवः ।
सद्यः सो अस्य महिमा न संनशे यं क्षोणीर् अनुचक्रदे ॥

8.003.11

शग्धी न इन्द्र यत् त्वा रयिं यामि सुवीर्यम् ।
शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥

8.003.12

शग्धी नो अस्य यद् ध पौरम् आविथ धिय इन्द्र सिषासतः ।
शग्धि यथा रुशमं श्यावकं कृपम् इन्द्र प्रावः स्वर्णरम् ॥

8.003.13

कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
नही न्व् अस्य महिमानम् इन्द्रियं स्वर् गृणन्त आनशुः ॥

8.003.14

कद् उ स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
कदा हवम् मघवन्न् इन्द्र सुन्वतः कद् उ स्तुवत आ गमः ॥

8.003.15

उद् उ त्ये मधुमत्तमा गिरः स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥

8.003.16

कण्वा इव भृगवः सूर्या इव विश्वम् इद् धीतम् आनशुः ।
इन्द्रं स्तोमेभिर् महयन्त आयवः प्रियमेधासो अस्वरन् ॥

8.003.17

युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः ।
अर्वाचीनो मघवन् सोमपीतय उग्र ऋष्वेभिर् आ गहि ॥

8.003.18

इमे हि ते कारवो वावशुर् धिया विप्रासो मेधसातये ।
स त्वं नो मघवन्न् इन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥

8.003.19

निर् इन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः ।
निर् अर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥

8.003.20

निर् अग्नयो रुरुचुर् निर् उ सूर्यो निः सोम इन्द्रियो रसः ।
निर् अन्तरिक्षाद् अधमो महाम् अहिं कृषे तद् इन्द्र पौंस्यम् ॥

8.003.21

यम् मे दुर् इन्द्रो मरुतः पाकस्थामा कौरयाणः ।
विश्वेषां त्मना शोभिष्ठम् उपेव दिवि धावमानम् ॥

8.003.22

रोहितम् मे पाकस्थामा सुधुरं कक्ष्यप्राम् ।
अदाद् रायो विबोधनम् ॥

8.003.23

यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः ।
अस्तं वयो न तुग्र्यम् ॥

8.003.24

आत्मा पितुस् तनूर् वास ओजोदा अभ्यञ्जनम् ।
तुरीयम् इद् रोहितस्य पाकस्थामानम् भोजं दातारम् अब्रवम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc