भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 7.097

7.097.01

यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति ।
इन्द्राय यत्र सवनानि सुन्वे गमन् मदाय प्रथमं वयश् च ॥

7.097.02

आ दैव्या वृणीमहे ऽवांसि बृहस्पतिर् नो मह आ सखायः ।
यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ॥

7.097.03

तम् उ ज्येष्ठं नमसा हविर्भिः सुशेवम् ब्रह्मणस् पतिं गृणीषे ।
इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥

7.097.04

स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर् विश्ववारो यो अस्ति ।
कामो रायः सुवीर्यस्य तं दात् पर्षन् नो अति सश्चतो अरिष्टान् ॥

7.097.05

तम् आ नो अर्कम् अमृताय जुष्टम् इमे धासुर् अमृतासः पुराजाः ।
शुचिक्रन्दं यजतम् पस्त्यानाम् बृहस्पतिम् अनर्वाणं हुवेम ॥

7.097.06

तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
सहश् चिद् यस्य नीलवत् सधस्थं नभो न रूपम् अरुषं वसानाः ॥

7.097.07

स हि शुचिः शतपत्रः स शुन्ध्युर् हिरण्यवाशीर् इषिरः स्वर्षाः ।
बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥

7.097.08

देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर् महित्वा ।
दक्षाय्याय दक्षता सखायः करद् ब्रह्मणे सुतरा सुगाधा ॥

7.097.09

इयं वाम् ब्रह्मणस् पते सुवृक्तिर् ब्रह्मेन्द्राय वज्रिणे अकारि ।
अविष्टं धियो जिगृतम् पुरंधीर् जजस्तम् अर्यो वनुषाम् अरातीः ॥

7.097.10

बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc