ऋग्वेद · अध्याय 7.098
अध्वर्यवो ऽरुणं दुग्धम् अंशुं जुहोतन वृषभाय क्षितीनाम् ।
गौराद् वेदीयाँ अवपानम् इन्द्रो विश्वाहेद् याति सुतसोमम् इच्छन् ॥
यद् दधिषे प्रदिवि चार्व् अन्नं दिवे-दिवे पीतिम् इद् अस्य वक्षि ।
उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥
जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानम् उवाच ।
एन्द्र पप्राथोर्व् अ1न्तरिक्षं युधा देवेभ्यो वरिवश् चकर्थ ॥
यद् योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् ।
यद् वा नृभिर् वृत इन्द्राभियुध्यास् तं त्वयाजिं सौश्रवसं जयेम ॥
प्रेन्द्रस्य वोचम् प्रथमा कृतानि प्र नूतना मघवा या चकार ।
यदेद् अदेवीर् असहिष्ट माया अथाभवत् केवलः सोमो अस्य ॥
तवेदं विश्वम् अभितः पशव्य1ं यत् पश्यसि चक्षसा सूर्यस्य ।
गवाम् असि गोपतिर् एक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥
बृहस्पते युवम् इन्द्रश् च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
धत्तं रयिं स्तुवते कीरये चिद् यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0