ऋग्वेद · अध्याय 7.096
बृहद् उ गायिषे वचो ऽसुर्या नदीनाम् ।
सरस्वतीम् इन् महया सुवृक्तिभिः स्तोमैर् वसिष्ठ रोदसी ॥
उभे यत् ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः ।
सा नो बोध्य् अवित्री मरुत्सखा चोद राधो मघोनाम् ॥
भद्रम् इद् भद्रा कृणवत् सरस्वत्य् अकवारी चेतति वाजिनीवती ।
गृणाना जमदग्निवत् स्तुवाना च वसिष्ठवत् ॥
जनीयन्तो न्व् अग्रवः पुत्रीयन्तः सुदानवः ।
सरस्वन्तं हवामहे ॥
ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः ।
तेभिर् नो ऽविता भव ॥
पीपिवांसं सरस्वतः स्तनं यो विश्वदर्शतः ।
भक्षीमहि प्रजाम् इषम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0