ऋग्वेद · अध्याय 7.095
प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणम् आयसी पूः ।
प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुर् अन्याः ॥
एकाचेतत् सरस्वती नदीनां शुचिर् यती गिरिभ्य आ समुद्रात् ।
रायश् चेतन्ती भुवनस्य भूरेर् घृतम् पयो दुदुहे नाहुषाय ॥
स वावृधे नर्यो योषणासु वृषा शिशुर् वृषभो यज्ञियासु ।
स वाजिनम् मघवद्भ्यो दधाति वि सातये तन्वम् मामृजीत ॥
उत स्या नः सरस्वती जुषाणोप श्रवत् सुभगा यज्णे अस्मिन् ।
मितज्ञुभिर् नमस्यैर् इयाना राया युजा चिद् उत्तरा सखिभ्यः ॥
इमा जुह्वाना युष्मद् आ नमोभिः प्रति स्तोमं सरस्वति जुषस्व ।
तव शर्मन् प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥
अयम् उ ते सरस्वति वसिष्ठो द्वाराव् ऋतस्य सुभगे व्य् आवः ।
वर्ध शुभ्रे स्तुवते रासि वाजान् यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0