ऋग्वेद · अध्याय 7.093
शुचिं नु स्तोमं नवजातम् अद्येन्द्राग्नी वृत्रहणा जुषेथाम् ।
उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥
ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा ।
क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ॥
उपो ह यद् विदथं वाजिनो गुर् धीभिर् विप्राः प्रमतिम् इच्छमानाः ।
अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस् ते ॥
गीर्भिर् विप्रः प्रमतिम् इच्छमान ईट्टे रयिं यशसम् पूर्वभाजम् ।
इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस् तिरतं देष्णैः ॥
सं यन् मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते ।
अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥
इमाम् उ षु सोमसुतिम् उप न एन्द्राग्नी सौमनसाय यातम् ।
नू चिद् धि परिमम्नाथे अस्मान् आ वां शश्वद्भिर् ववृतीय वाजैः ॥
सो अग्न एना नमसा समिद्धो ऽच्छा मित्रं वरुणम् इन्द्रं वोचेः ।
यत् सीम् आगश् चकृमा तत् सु मृळ तद् अर्यमादितिः शिश्रथन्तु ॥
एता अग्न आशुषाणास इष्टीर् युवोः सचाभ्य् अश्याम वाजान् ।
मेन्द्रो नो विष्णुर् मरुतः परि ख्यन् यूयम् पात स्वस्तिभिः सदा नः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0